ಅನುವಾದಿತ ಕಥೆ-೨೭
विश्वासो बलवर्धकः
एकस्मिन् ग्रामे एकः धनिकः आसीत्। तस्य गृहे सर्वाणि सुखसाधनान्यपि आसन् । तस्यैका आकाङ्क्षा देशपर्यटनरूपा । पर्यटनकाले ममैव एका नौकाsस्ति चेत् अतीव सुकरम् इति मन्यमानेन तेन गच्छति काले अतीव श्रद्धया व्यापारे बहु धनं सम्पादितम् । तेन सः नावं क्रीतवान् । तया नौकया अटन् सः देशविदेशेभ्यः बहूनि वस्तूनि आनीय विक्रयणं कृतवान् । तेन तस्य सम्पदपि दिने दिने वर्धिता बभूव ।
एकदा झंझावातेन उत्क्षिप्ता तस्य नौका ध्वस्ता। तस्मिन् काले तस्य अपारधनमपि नौकया सह नष्टम् अभूत् । तेन सः दरिद्रो बभूव । प्रत्यहं यथेच्छं भोजनं कर्तुमपि कष्टमभूत् तस्य कृते। तथापि सः आत्मविश्वासं न त्यक्तवान्। समये आगते धनिकानां क्षेत्रेषु सेवकत्वेनापि कर्म कृतम् तेन । ये पूर्वं परिचिताः आसन् ते इमं दृष्ट्वा नितरां हास्यं कृतवन्तः । बन्धुभिरपि अचिरादेव दूरीकृतः। तथापि सः न खिन्नोsभूत् । श्रद्धया स्वकर्म कुर्वन्नेव भूयः नावं
क्रेतुं शक्तो$भूत् । पुनः यथापूर्वं पर्यटनम् आरब्धम् तेन । तदा परिचितैः पृष्टः सः - कथं भवान् एतादृशं मनस्थैर्यं प्राप्तवान् इति ? तदा तेनोक्तम् - जीवनयुद्धे पराजितवान् त्वम् इति एकदापि मया अन्तःकरणं प्रति न भणितम् । सर्वदा परिश्रमं कुर्वन्नेव मया जीवनयुद्धे विजयः सम्पादितः , नत्वन्यथा इति ।
अस्माभिरपि बहुवारं जीवने पराजयो अनुभूयते। तत्काले अन्तःकरणं प्रति एवं वक्तव्यम् - सोत्साहानां नराणां नास्त्यसाध्यम् इति । तदेव अस्मान् विजयमार्गे नयति ।
अनुवादक: श्रीनिधि अभ्यङ्कर:
उपकर्ता चिदम्बर कुलकर्णि:
दोषा: दृष्टाश्चेत् अवश्यं सूचयन्तु । तेनैव साधु लेखनं शक्यं भवति।
मम लेखनानां कृते पश्यन्तु तथा स्वाभिमतं प्रकटयन्तु
नम्रः
http://shreenidhiabhyankar.blogspot.com/?m=1
ಕಾಮೆಂಟ್ಗಳು
ಕಾಮೆಂಟ್ ಪೋಸ್ಟ್ ಮಾಡಿ