ಅನುವಾದಿತ ಕಥೆ-೨೭

विश्वासो बलवर्धकः 

एकस्मिन् ग्रामे एकः धनिकः  आसीत्। तस्य गृहे सर्वाणि सुखसाधनान्यपि आसन् । तस्यैका आकाङ्क्षा  देशपर्यटनरूपा । पर्यटनकाले ममैव एका नौकाsस्ति चेत् अतीव सुकरम् इति मन्यमानेन तेन गच्छति काले अतीव श्रद्धया व्यापारे बहु धनं सम्पादितम् । तेन सः नावं क्रीतवान् । तया नौकया अटन् सः देशविदेशेभ्यः बहूनि वस्तूनि आनीय विक्रयणं कृतवान्  । तेन तस्य सम्पदपि दिने दिने वर्धिता बभूव । 

एकदा झंझावातेन उत्क्षिप्ता तस्य नौका ध्वस्ता। तस्मिन् काले  तस्य अपारधनमपि नौकया सह  नष्टम् अभूत् । तेन सः दरिद्रो बभूव । प्रत्यहं यथेच्छं भोजनं कर्तुमपि कष्टमभूत् तस्य कृते। तथापि सः आत्मविश्वासं न त्यक्तवान्।  समये आगते धनिकानां क्षेत्रेषु सेवकत्वेनापि कर्म कृतम् तेन ।  ये पूर्वं परिचिताः आसन्  ते इमं  दृष्ट्वा नितरां  हास्यं कृतवन्तः । बन्धुभिरपि अचिरादेव दूरीकृतः। तथापि सः न खिन्नोsभूत् । श्रद्धया स्वकर्म कुर्वन्नेव भूयः नावं 
 क्रेतुं शक्तो$भूत् । पुनः यथापूर्वं पर्यटनम् आरब्धम् तेन । तदा परिचितैः पृष्टः सः - कथं भवान् एतादृशं  मनस्थैर्यं प्राप्तवान् इति ? तदा तेनोक्तम् - जीवनयुद्धे पराजितवान् त्वम् इति एकदापि मया अन्तःकरणं प्रति न भणितम् । सर्वदा परिश्रमं कुर्वन्नेव मया जीवनयुद्धे विजयः सम्पादितः , नत्वन्यथा इति ।

अस्माभिरपि बहुवारं जीवने पराजयो अनुभूयते। तत्काले अन्तःकरणं प्रति एवं वक्तव्यम् - सोत्साहानां नराणां नास्त्यसाध्यम् इति । तदेव अस्मान् विजयमार्गे नयति । 

अनुवादक: श्रीनिधि अभ्यङ्कर: 
उपकर्ता चिदम्बर कुलकर्णि: 
दोषा: दृष्टाश्चेत् अवश्यं सूचयन्तु । तेनैव साधु लेखनं शक्यं भवति। 
मम लेखनानां कृते पश्यन्तु तथा स्वाभिमतं प्रकटयन्तु 
नम्रः
http://shreenidhiabhyankar.blogspot.com/?m=1

ಕಾಮೆಂಟ್‌ಗಳು

ಈ ಬ್ಲಾಗ್‌ನ ಜನಪ್ರಿಯ ಪೋಸ್ಟ್‌ಗಳು

ಕಿರಾತಾರ್ಜುನೀಯ ಪರಿಚಯ

ಪ್ರತಿಮಾ ನಾಟಕ

ಸಂಸ್ಕೃತ ವಿಶೇಷ ಶ್ಲೋಕಗಳು ೩