ಅನುವಾದಿತ ಕಥೆ-೨೬
अनूदित कथावलिः --२७
दानेन पाणिर्नतु कङ्कणेन
तत्र एकः दरिद्रकुटुम्बः। दम्पती तथा तयोः षडपत्यानि । तथा सति एकस्मिन् दिने महानगरपालिकायाः अधिकारिणः तत्र आगत्य नगरे अभिवृद्धिं कर्तुं तथा प्रशासनस्थलं यत्र कुत्रचित् आक्रमितं वा इति पर्यालोच्य तद्दूरीकर्तुं तेषां वासस्थाने बृहत् यन्त्रं उपयुज्य तैः सर्वाणि तत्रस्थानि उटजानि पातितानि ।
तेन तत्र उष्यमाणाः सर्वे जनाः निराश्रिताः बभूवुः । सप्ताहद्वयं यावत् तेषाम् उद्योगो$पि न लब्धः । चतुर्दिनानि तैः अशनं विना बहुकष्टेन यापितानि। इतः परं बुभुक्षा सोढुम् अशक्या इत्यालोच्य गृहिणी भिक्षार्थं बृहत्सदनस्य अभितः स्थित्वा 'अम्ब भिक्षां देहीति ' इत्युच्चैः चुक्रोश। यदा तद्गृहस्था आगता तदा तया निवेदितम् - हे मातः चतुर्दिनेभ्यः वयं उपवासं कुर्वन्तः स्मः , वत्साः अपि अतीव बुभुक्षिताः ,कृपया अन्नं ददातु इति ।
तत्र उष्यमाणा सा करुणामयी माता तदाकर्ण्य सर्वान् दृष्ट्वा अश्रूणि मुञ्चन्ती तेभ्यः सर्वेभ्यः अन्नं दत्तवती । बालाः तद्दृष्ट्वा अतीव आनन्दिताः । तेषां लोचनेषु सौदामिनीव कान्तिः प्रकाशिता। परंतु झटित्येव सा तदन्नं द्वेधा विभज्य एकं भागं शाटिकायां पूरयित्वा यत्रकुत्रापि गतवती। बालैः भोजनमारब्धम् ।
अचिरादागता सा तया धनिकयोषिता पृष्टा - अहो कुत्र गमनमासीत् तव, अन्नं कस्मै नीतम् , पत्यै वा अन्यस्मै ! इति। तदा सा उक्तवती- अस्माभिः सह अन्यः अपि एकः कुटुम्बः एतद्दशायामेव वर्तते । ते सर्व$पि बुभुक्षिताः आसन्, तत्रापि बह्वपत्यता, अतः तत्र गत्वा दत्तमन्नम्, मां क्षमस्व इति।
तदा सा श्रीमती एवम् उद्गारं कृतवती - दरिद्राः हृदयेन श्रीमन्तः, वयम् तु ! इति ।
अनुवादक: श्रीनिधि अभ्यङ्कर:
उपकर्ता चिदम्बर कुलकर्णि:
दोषा: दृष्टाश्चेत् अवश्यं सूचयन्तु । तेनैव साधु लेखनं शक्यं भवति।
मम लेखनानां कृते पश्यन्तु तथा स्वाभिमतं प्रकटयन्तु
नम्रः
http://shreenidhiabhyankar.blogspot.com/?m=1
ಕಾಮೆಂಟ್ಗಳು
ಕಾಮೆಂಟ್ ಪೋಸ್ಟ್ ಮಾಡಿ