ಅನುವಾದಿತ ಕಥೆ ೩೬
अनूदितकथावलिः-३६ उपकारधीः गिरिवननामकं विपिनमेकं प्रसिद्धमासीत् । तत्र बहुसंख्याकाः चन्दनपादपाः आसन्। वृक्षस्येकस्योपरि शुकसंसारः वसति स्म। एकदा ग्रीष्मकाले अंशुभिः जनिततापेन मन्दवातेन च वृक्षेषु लघुघट्टनं, तेन च वह्निः जातः । अचिरादेव तृणं व्याप्य अरण्यं भक्षयन्निव भासमानः सः शुकवसतेः वृक्षस्य समीपम् आगच्छत्। तत्समये शुकपितरौ आहारार्थं सुदूरं गतवन्तौ आस्ताम् । एकः शावकः एव वृक्षमाश्रित्य स्थितः । सः वृक्षराजः करुणया तं शुकशावकं प्रति अवोचत्- हे शिशो, वह्निः सर्वं भक्षयन् ज्वालाभिः प्रसृतः समीपमागतः । अहं तु स्थविरः । अद्य वा श्वः वा मृतः भवामि। भवान् न तादृशः, वह्निना एकैका मम शाखा व्याप्ता खादिता च भवति। मम काण्डस्यापि अचिरादेव अग्निः प्रसरति। मम कृते चिंतां मा कुरु। भवतः जीवनं बहु दीर्घम् अस्ति। तथा च भवान् मां त्यक्त्वा क्षणाद्दूरं गच्छतु इति। सः शावकः आश्रयदातुः वृक्षस्य नाशम् असहमानः दुःखितः बभूव। उपकृतस्य कष्टे प्राप्ते प्रत्युपकारः कर्तव्य एव, आपदि एनं त्यक्त्वा कुत्र वा कथं गच्छामि इति विचिन्त्य समीपस्थे ह्रदे निमज्य पक्षाभ्यां जलमानीय वह्नेरुपरि सि...