ಅನುವಾದಿತ ಕಥೆ-೩೧
अनूदित कथावलिः - ३१
न हि ज्ञानेन सदृशम्
अन्ये गुरवः के!!!
साधुः सुप्तः एव द्वितीयगुरुविषयं वक्तुमारेभे। एकः शुनकः अपि मम गुरुरासीत् । एकदा अहं सरस्समीपे पर्यटन् आसम् । तदा सः श्वा तत्र जलपानार्थमागतः । यदा जलसमीपं गतवान् तदा तत्र स्वस्य प्रतिबिम्बं दृष्ट्वा भीतः अभूत् । तस्मिन् भषिते प्रतिबिम्बस्थः शुनकोsपि भषति स्म । तथापि तृष्णापीडितः सः श्वा किमपि भवतु इति धैर्यात् जले पतितवान् । तदा प्रतिबिम्बस्थः श्वा$पि अदृश्योsभवत् , तथैव भीतिरपि गता । भगवद्विषये वा अध्यात्मविषये अहमपि भीतः तथा संशयितः आसम् । तदाप्रभृति मम भीतिः दूरंगता। तथा च सो$पि शुनकः मम गुरुः ।
तृतीयः गुरुः एकः बालकः । एकदा सन्ध्याकाले हस्ते दीपमेकं धृत्वा गच्छन् आसीत्। देवालये अन्यं दीपं प्रज्वालयितुं तस्य गमनं निश्चितमासीत् । तस्मिन् काले मम मनसि अतीव अहङ्कारः आसीत्। एतेन बालकेन मम प्रश्नाय उत्तरं किं दीयते इति दर्पेण अहं तम् एवं पृष्टवान् ।
रे माणवक, एतदालोकः कस्मादागतः इति तं पृष्टवान् । तदा सः हसन् दीपं प्रशम्य उक्तवान् - इदानीं प्रज्वलन् दीपः निवारितः । तदालोकः कुत्र गतः इति भवता वक्तुं शक्यते किम्? मम प्रश्नस्य भवतः किम् उत्तरम् अस्ति तदेव भवतः प्रश्नस्यापि उत्तरम् । अन्धकारः मम चित्ते आसीत्, आलोकस्तु बालकस्य चित्ते$पि अस्ति इति ज्ञातवानहम् ।
तदा मम अहङ्कारः शतधा विभक्तः नष्टश्च । तदारभ्य अहं विनीतो$भवम् । तथा च सो$पि बालकः मम गुरुः ।
जगति सर्वत्र सर्वदा विविधविषयान् वयं जानीमः । ज्ञानार्जनाय सदा उत्सुकाः भवामो चेत् सर्वविषयकं किङ्चिदपि ज्ञानं प्राप्तुं शक्नुमः । तत्र उत्साहः सर्वथा आवश्यकः । हनुमता तदेव उक्तम् रामायणे - उत्साहो बलवानार्य इति।
अनुवादक: श्रीनिधि अभ्यङ्कर:
उपकर्ता चिदम्बर कुलकर्णि:
दोषा: दृष्टाश्चेत् अवश्यं सूचयन्तु । तेनैव साधु लेखनं शक्यं भवति।
मम लेखनानां कृते पश्यन्तु तथा स्वाभिमतं प्रकटयन्तु
नम्रः
http://shreenidhiabhyankar.blogspot.com/?m=1
ಕಾಮೆಂಟ್ಗಳು
ಕಾಮೆಂಟ್ ಪೋಸ್ಟ್ ಮಾಡಿ