ಅನುವಾದಿತ ಕಥೆ ೧೨
अनूदितकथावलि: -११ तितिक्षा किं न जनयति एकस्मिन् जनपदे एक: नृपति: आसीत्। एकदा राज्ये जनानां जीवनं कथं प्रचलत् वर्तते इति स्वयमेव दृष्टुम् उत्सुक: स: प्रस्थित:। यदा तेन स्वाधीनस्थ: क्षेत्रमार्ग: प्राप्त: तदा सर्वत्र हरितवर्णेन विराजमानानि द्राक्षाफलक्षेत्राणि दृष्टानि। राजानं दृष्ट्वा अनेके क्षेत्रकृषका: आगत्य द्राक्षा फलानां मञ्जूषां तस्मै दत्तवन्त:। मधुराणि तानि फलानि आस्वाद्य राजा भृशम् आनन्दमवाप। एवमेव पुरत: यदा गच्छति स्म तदा तेन एकं विचित्रं क्षेत्रं दृष्टम् । तत् क्षेत्रे सस्या: सर्वथा पुष्टा: रोगहीना: अपि एकस्मिन् सस्ये अपि फलम् अल्पमपि न उत्पन्नम् आसीत्। एतेन चकित: राजा तत् क्षेत्रस्य कार्यकरम् आहूय किमत्र कारणम् इति पृष्टवान् । स: क्षेत्रकृषक:एवमुक्तवान् राजानं प्रति - भो राजन् , अफले एवं कारणं वर्तते,एता: द्राक्षालता: असामान्या:। एतासु लतासु विंशति वर्षानन्तरं फलं भविष्यति। मया दशवर्षेभ्य: प्राक् एता: क्षेत्रे रोपिता:। अधुनापि दशवर्षा: प्रतीक्षमाणा: भवन्ति , मया जीवननिर्वहणार्थं अन्...