ಅನುವಾದಿತ ಕಥೆ-೩೦

अनूदित कथावलिः - ३०

न हि ज्ञानेन सदृशम् 

एकः महान् योगी मरणं निरीक्षमाणः सुप्तः आसीत् । तस्य शिष्याः पुरतः स्थित्वा दुःखिताः रुदन्तः आसन् । तेष्वेकेन पृष्टम् - हे गुरुवर्य , भवतः गुरुः कः इति । तदा तेनोक्तम्- तत्सर्वं ज्ञातुम् इदानीं समयः नास्ति। मृत्युः मम समीपे एव वर्तते। तदा शिष्येन उक्तम् - इदानीमपि समयो नातीतः , कानिचन नामानि वदतु इति । 

तदा तेन उत्तरितम् - तदपि अशक्यम् , तथापि त्रयः  गुरवः मम स्मृतिपटले आविर्भूताः , तेषां विषये वदामि इति वक्तुमारेभे। 

प्रथमः गुरुः एकः चोरः । तदा अहं कुत्रचित् यात्रां कुर्वन् आसम् । तदा रात्रिकालः । आपणानां  तथा गृहाणां द्वाराणि निमीलितानि आसन्। सर्वत्र तमः व्याप्तः । शीतवायुरपि मन्दं मन्दं नुदति स्म। तन्नगरे यः कोपि नरः न दृश्यते स्म। वीथ्यां सञ्चरन् एकः चोरः भित्तिं विदारयन् दृष्टो मया। तमहं अपृष्टम् - अद्य रात्रौ मम तव गृहे आश्रयः दीयते वा इति। तेनोक्तम्- भवान् साधुरिव दृश्यते, अहमेकः चोरः , चोरेण साकं वासः भवतः रोचते किम् इति। अहं किञ्चित् विषण्णः अभूवम् । तथापि एवं चिन्तितम् - चोरस्य तु  मया सह उषितुं न भीतिः , तथा सति साधोः चोरेण साकं  उषितुं  का समस्या इति। 

ततः सः मम मित्रम् अभूत्। मासमेकं तत्र मया उषितम् । प्रत्यहं रात्रौ सः चौरार्थं गच्छति स्म । बहुवारं रिक्तहस्तः आगच्छति स्म। तथापि सः प्रत्यहं गच्छति स्म। तस्य विश्वासः आसीत् अद्य किमपि द्रव्यं लभेत इति। कदापि सः विश्वासं न त्यक्तवान्। गमनकाले तेनाहं  अद्य मम यशसे प्रार्थनां कुरु इति निवेदितः बभूव । 

चिरात् मम साक्षात्कारम् अभूत् । तदर्थं अनेकवर्षाणि मया प्रतीक्षितानि। बहुधा मम मनः विचलितः अभूत्, सर्वदा मया चोरस्य स्मरणं कृत्वा दृढमनस्को भूत्वा पुनः यत्नः क्रियते स्म । सः मम प्रथम गुरुः इति। 

अन्ये गुरवः के !!!! प्रतीक्षां कुर्मः  

अनुवादक: श्रीनिधि अभ्यङ्कर: 
उपकर्ता चिदम्बर कुलकर्णि: 
दोषा: दृष्टाश्चेत् अवश्यं सूचयन्तु । तेनैव साधु लेखनं शक्यं भवति। 
मम लेखनानां कृते पश्यन्तु तथा स्वाभिमतं प्रकटयन्तु 
नम्रः
http://shreenidhiabhyankar.blogspot.com/?m=1

ಕಾಮೆಂಟ್‌ಗಳು

ಈ ಬ್ಲಾಗ್‌ನ ಜನಪ್ರಿಯ ಪೋಸ್ಟ್‌ಗಳು

ಕಿರಾತಾರ್ಜುನೀಯ ಪರಿಚಯ

ಪ್ರತಿಮಾ ನಾಟಕ

ಸಂಸ್ಕೃತ ವಿಶೇಷ ಶ್ಲೋಕಗಳು ೩