ಅನುವಾದಿತ ಕಥೆ ೨೪
अनूदित कथावलिः ----- २४ उद्योगिनं पुरुषसिंहमुपैति लक्ष्मीः एकस्मिन् जनपदे उत्तमः नृपः एकः आसीत्। तेन प्रजाः पुत्रवत् परिपाल्यन्ते स्म । एकदा सः पौराणां परस्परसहायबुद्धिं परीक्षितुं इच्छन् भटान् सर्वान् विहाय प्रधानवीथ्याम् अरुणोदयकाले एव आगतवान् । ततः सः मार्गमध्ये एकं बृहदश्मानं स्थापयामास। जनैः किं क्रियते कथं वा तेषां प्रक्रिया भवेत् इति दृष्टुकामः सः समीपस्थे गुल्मे स्वम् आच्छाद्य स्थितवान्। सः मार्गः सर्वदा बहुजनैः उपयुज्यमानः आसीत्। केचन राजकुले वसन्तः जनाः तेनैव मार्गेण गतवन्तः । यः कोsपि अश्मानं मार्गात् दूरीकर्तुं न प्रयतितवान् । बहुभिः वणिजैः सः मार्गः उपयुक्तः , परंतु न कृतः तैरपि यत्नः। अपरे केचित् राजानम् अधिकारि वर्गं च यथेच्छं तर्जयित्वा गताः । किंतु न केनापि दूरीकृतः सः महालोष्टः । तत्रान्तरे एकः शाकविक्रेता मञ्जूषायां शाकान् पूरयित्वा शिरसि निक्षिपन् तत्र आगतः । लोष्टं दृष्ट्वा तेन चिन्तितम् ' हन्त, एतेन लोष्टेन अनेकेषां मार्गे गमनकाले कष्टं भवति, कथञ्चिदपि एषः दूरीकर्तव्यः मया ' इति शिरस्थां मञ्जूषां भूमौ स्थापयित्व...