ಅನುವಾದಿತ ಕಥೆ-೨೫
अनूदित कथावलिः --२५
लघुकथाः ( nano stories)
लालनपालनम्
दिवाकरः अस्ताचलं गतः । गृहस्य अलिन्दे सम्मार्जन्या स्वच्छतां कृत्वा उपविष्टां मातरं दृष्ट्वा शिशुः अवदत् - अम्ब, अम्ब किमिति चेत् अद्य त्वं बहुसुन्दरी दृश्यसे इति। वत्सवचनमाकर्ण्य चकिता सा माता कौतुकात् एवं पृष्टवती- अये, साधुवचनम् , कुतः एवं ब्रवीषि? कथं अद्य सुन्दरी दृष्टा$स्मि त्वत्कृते? वद शीघ्रम् इति । तदा मुग्धचित्तेन शिशुना एवं भणितम् -हे मातः, प्रातःप्रभृति इतः पर्यन्तम् अद्य न त्वया$हं ताडितः, नभर्त्सितः,न वा निन्दितः, अत एवेति। प्रत्यहं नियमपालनार्थं शिशुं ताडयन्ती सा माता तद्वचः श्रुत्वा पृष्ठतः अवलोक्य अश्रूणि पातितवती।
वाक्बाणजनित परिणामः
ग्रामे एकः कुटुम्बः आसीत्। सहजतया कुटुम्बमध्ये सरस- विरस- कलह- सन्ध्यादयः आसन् । पतिः सूक्क्ष्ममनस्कः तथा आज्ञाकारी च आसीत्। सर्वदा तस्यैव मतम् अन्तिममिति अङ्गीकरणीयम् आसीत्। कदाचित् दम्पत्योः मध्ये कलहः समजनि। मुहूर्तं यावत् वादः सञ्जातः । यथापूर्वं पतिः विजयम् प्राप्तवान् । तदा पत्नी हास्यार्थम् एवम् उक्तवती - मरणानन्तरम् मम स्वर्गप्राप्तिः निश्चिता, कुत इति चेत् नरकयातनाम् अत्रैव प्रत्यहं अनुभवामि इति । तच्छ्रुत्वा बहु सूक्क्ष्मबुद्धिः सः तस्याः हास्यप्रज्ञाम् अजानन् गम्भीरतया आलोच्य पत्न्याः साकं ततः प्रभृति सम्भाषणमेव त्यक्तवान् । ततः प्रभृति तयोर्मध्ये प्रीतिः- कलहश्च द्वावपि नष्टौ।
अनुवादक: श्रीनिधि अभ्यङ्कर:
उपकर्ता चिदम्बर कुलकर्णि:
दोषा: दृष्टाश्चेत् अवश्यं सूचयन्तु । तेनैव साधु लेखनं शक्यं भवति।
मम लेखनानां कृते पश्यन्तु तथा स्वाभिमतं प्रकटयन्तु
नम्रः
http://shreenidhiabhyankar.blogspot.com/?m=1
ಕಾಮೆಂಟ್ಗಳು
ಕಾಮೆಂಟ್ ಪೋಸ್ಟ್ ಮಾಡಿ