ಅನುವಾದಿತ ಕಥೆ ೧೨
अनूदित कथावलि:--१२ *धनाशा कुत:* एकस्मिन् गुरुकुले एक: तपस्वी ज्ञानी गुरु: शिष्यान् पाठयति स्म । तत्र अनेके छात्रा: समीचीनतया बहु ज्ञानम् अर्जयित्वा गच्छन्ति स्म। एकदा शिष्यस्य एकस्य मनसि एवम् विचार: उत्पन्न: 'अहं गुरुकृपया धनिको भवामि' इति। तत: स: बहुधा आलोच्य गुरो: सकाशं गत्वा एवमुक्तवान् ' स्वामिन् आचार्यवर्य, भवान् सर्वविद्याप्रवीणोस्ति, भवत: लोके असाध्यं किमपि नास्ति। अतः अहं मम एकां वाञ्छां भवत्पुरत: निवेदयामि। कृपया मह्यं दशकोटि धनं यच्छतु। अहं धनिको भवामि ' इति । एतत्छ्रुत्वा चकित: गुरु: एवं विचारयामास - दशकोटिपरिमितेन धनेन किं कर्तुं शक्यते, तेन एष: किं साधयति, विद्यया एतावदेव वा अधिकं स्वयमेव तेन अर्जितुं शक्यते , इदानीं मया एवमुपदिश्यते चेत् आशया अन्ध: एष: तत् न श्रुणोति इति। तत: स: एवमुक्तवान् तं बह्वाशं शिष्यं प्रति ' भो, भवत: आशां निश्चयेन पूरयामि, परंतु किञ्चित् कालम् आवश्यकम् तावद्धनं दातुम्,सप्ताहत्रयानन्तरम् अहं निश्चयेन दास्यामि ' इति। मुदित: स: छात्र: गुर्वनुग्रहं स्मरन् गत:। तत: तस्य आश...