ಅನುವಾದಿತ ಕಥೆ ೩೦
अनूदित कथावलि: --२०
समयानुसारिणी गति: मतिश्च
एकस्मिन् जनपदे एक: राजा प्रशासति स्म। तस्य एकैव पुत्र: आसीत्। सहजतया तद्विषये महतीं प्रीतिं दर्शितवन्तौ तस्य पितरौ । कालक्रमेण स: युवावस्थां प्रविष्ट: । मित्रै: साकं द्वित्रिवारं मृगयार्थं गतवान् । तेन नितरां तुष्ट: स: सप्ताहे चतु:पञ्चवारं यावत् मृगयार्थं गन्तुमारेभे।
पुत्रस्य एतादृशस्वभावेन चिन्तित: पिता तस्मै एवं वारंवारं मृगयार्थं गमनं न साधु भवति, प्रजा: मृगै: पीडिता: चेत् तदा अवश्यं गन्तव्यम् इत्याद्युपदिदेश। परंतु यौवनमदमत्त: राजपुत्र: तस्य वचनं अन्यकर्णेन त्यक्तवान् । तदा राजा मन्त्रिणमाहूय पुत्रस्य राजकार्येषु अनासक्ति: , मित्रै: साकम् अटनार्थं अतीव आसक्ति: , कथं तस्य मन: परिवर्तितव्यम् , किं करणीयं तद्विषये, अहं चिन्ताक्रान्त: अभवम् इत्युक्तवान्। तदा तेनोक्तम् - कालेनैव स: शिक्षितो भवति। भवान् मा कुरु चिन्ता इति ।
तत: काल: गत: । एकदा कुमार: मृगयार्थं वनं गत: । तद्दिने अकस्मात् एकस्य सिंहस्योपरि आक्रमणकाले अश्वात् पतितो बभूव। मृगराजस्तु अनुक्षणमेव तं उपसर्प्य आक्रमितुमारेभे । तदा सहचरै: कथञ्चित् रक्षित: स: प्रासादमागत: । किंतु सिंहकृतनां व्रणानां वेदना सोढुम् अशक्या आसीत्। तथापि राजवैद्यस्य सुष्टु उपचारै: मासत्रयानन्तरं स्वस्थो$भूत् । शुश्रूषा समये तेनैवं चिन्तितम् - द्वित्रिव्रणै: एव अहम् ईदृशीं प्राणहारिणीं पीडाम् अनुभवामि चेत् प्रत्यहं मया घातितानां प्राणिनां का कथा! अद्यप्रभृति अकारणं मृगयार्थं न व्रजामि इति। तदारभ्य तेन राजकार्येषु आसक्तिरपि दर्शिता। तेन तुष्ट: नृप: मन्त्रिवचनं स्मृत्वा तं मनसा एव प्राशंसत् ।
अस्माकं जीवनेपि एतादृश अवसरा: दरीदृश्यन्ते। क्वचित् शिष्या: , क्वचित् पुत्रपौत्रा: , क्वचित् मित्राणि उत्तम उपदेशं तृणमिव दूरीकुर्वन्ति। किंतु तेषां समेषां कृते काल: एव उपदेष्टा निश्चयेन भवति । तदर्थं शोक: , उद्वेग: वा न कदापि करणीय: ।
अनुवादक: श्रीनिधि अभ्यङ्कर:
उपकर्ता चिदम्बर कुलकर्णि:
दोषा: दृष्टाश्चेत् अवश्यं सूचयन्तु । तेनैव साधु लेखनं शक्यं भवति।
मम लेखनानां कृते पश्यन्तु तथा स्वाभिमतं प्रकटयन्तु
http://shreenidhiabhyankar.blogspot.com/?m=1
ಕಾಮೆಂಟ್ಗಳು
ಕಾಮೆಂಟ್ ಪೋಸ್ಟ್ ಮಾಡಿ