ಅನುವಾದಿತ ಕಥೆ ೨೧
अनूदित कथावलि: --२१
महामारी कं न पीडयति ?
तत्र एक: सुखी कुटुम्ब: | ग्रामादागत्य अपारश्रमेण नगरे धनादि अर्जयित्वा वृद्धिमाप्तवान् कुटुम्बमुख्य: |
बाल्ये एव तस्य पिता यमसदनं गत: | अग्रज: उत्तमम् अध्ययनं कृत्वा नगरे उद्योगं तत्समये एव प्राप्तवान् आसीत्। सहजतया कुटुम्बभरणं तेनैव कृतम् । कनिष्ठेन एवं चिन्तितम् - अग्रजस्य एकस्य धनार्जनं कुटुम्बभरणार्थं न पर्याप्तं भवति , अत: अहमपि कञ्चन उद्योगं करोमीति । किंतु स: द्वादशकक्ष्यापर्यन्तमेव पठितवानासीत् , तेन स: एकस्मिन् आपणे सहायकत्वेन नियुक्त: । दिवा कार्यं समाप्य सन्ध्याकाले पदवी शिक्षणार्थं विद्यालयं गत्वा पदवीं प्राप्तवान्।
तस्य आपणस्य स्वामी एक: सज्जन: । तस्य एक एव पुत्र: उन्नतशिक्षणं समाप्य वैदेशिक्यां संस्थायां कार्यमग्न: आसीत्। तेन स्वामिना एवं चिन्तितम् - मया अल्पवेतनं दीयमानमपि एष: ऋजुमार्गेण कार्यं कुर्वन्नस्ति , कालेगते एष एव आपणस्वामी भवितुं अर्हः इति व्यापारस्य सर्वसूक्ष्म विषयान् तस्मै क्रमशः उपदिदेश । कार्यकुशलेन एतेन तत्सर्वं मनसि सुष्टु स्थापितम् ।
दशवत्सरा: गता:। वृद्धः आपणस्वामी वयोसहजतया स्वर्गं गतः । तत्पुत्र: किञ्चित् धनं स्वीकृत्य एतस्मै एव तस्य आपणस्य स्वामित्वं दत्तवान्।
ततः एषः व्यापारे स्वसामर्थ्येन तथा जनानुरागेण सद्गुणैः च अतिशीघ्रं यशः अनुभूतवान् । अग्रजस्य उपकारं स्मरन् तस्य वचनानुसारं सर्वकारीय विद्यालये कार्यं कुर्वन्तीं कन्यामपि ऊढवान् । तयोः कुलदीपकः पुत्रः जातः ।
तेनापि सम्यगधीत्य उद्योग: प्राप्त: । एवमादि सुखजनकविषयैः मुदितः सः कुटुम्बः । काले गते तेन चिंन्तितम् अहमपि पञ्चपञ्चाशत् वर्षीयः अभूवम् । इतःपरं पुत्राय आपणस्य सर्वदायित्वं दत्वा निवृत्तो भवामीति ।
तदानीमेव एषा महामारी कोरोना नगरं प्रविष्टा । कं मोहयति सा , कं परिणीतवती इति कथञ्चिदपि केनापि ज्ञातुं न शक्यते स्म। एतेन सर्वेषां कृते जागृद्वचनानि सदा बोधितानि। स्वस्मिन् आपणेपि हस्तमार्जनार्थं वासनाद्रव: स्थापितः , मुखे आवरकं धृत्वा अन्येषामपि मारीविषये उपदेशः दत्तः ।
विधिनिर्णय: कः इति केन ज्ञायते! एकस्मिन् दिने आपणद्वारं पिधाय सायं गृहमागत्य चहां पीत्वा उपविष्टवान्। तस्य शरीरे तद्दिने अल्पवेदना दृश्यते स्म। आपणे जनसम्मर्दः आसीत्, कार्यबाहुल्यात् एवं स्यादिति विचिन्त्य शय्याम् आलिङ्गितवान् ।
परेद्युः आपणं गत्वा यथाक्रमं व्यापारो कृतः, किंतु तद्दिने अवयवेषु वेदना प्रसरिता। तथापि तेन चिन्तितम् - अहं स्थविरः , कार्यबाहुल्येन एवं वेदनादिकम् स्यादिति । अपरेद्युः प्रातः एव वेदना, निश्शक्तिः च सर्वशरीरे व्यापृता ।
चिन्तामग्नः सः झटिति परिचितभिषजे दूरवाण्यां स्वदेहस्थितिं निवेद्य तस्य निर्देशानुसारं गुलिकां स्वीकृत्य सुप्तवान् । यदा सायं पुत्रः गृहमागतः तदा पिता ज्वरपीडितः आसीत्। चकितमनसा तेन मारीपरीक्षा कारिता। तत्र मार्या पितुरालिङ्गनं कृतमिति ज्ञातं च। तत: तैः सर्वसदस्यैरपि परीक्षा स्वीकृता। तदा मातुरपि आमयः दृष्टः ।
ततः समीपे रुग्णालये नीतवान् । तयोः दम्पत्योः चिकित्सा आरब्धा। त्रिदिनं यावत् न को$पि चिन्ताविषयः श्रुतः तैः । किंतु चतुर्थे$हनि पिता श्वासोच्छवासं सम्यक् कर्तुं न शशाक। तस्मिन् रूग्णालये बृहत् यन्त्रादिकं अधिककुशलाः वैद्याः नासन् । अन्यत्र प्रेषणार्थं यत्नः कृतः , किंतु सर्वेषु वैद्यालयेषु एकमेव उत्तरं लब्धम् तेभ्यः - शय्या रिक्ता न रोगिभि: सर्वै: पूर्णा इति।
तथापि नेतारम् एकं दूरवाण्यां सर्वविषयं निवेद्य शुश्रूषार्थं व्यवस्था कथञ्चित् कृता। किंतु तत्र का चिकित्सा दीयते, एतयोः देहे कः परिणामः तया इत्यादि किमपि न वदन्ति स्म भिषजः । ततः परं सः विशिष्टचिकित्साप्रकोष्ठे (ICU) स्थापितः। तत्रापि दिनत्रयं यावत् बहुयन्त्रसहायै: शुश्रूषा कृता। किंतु अपरेद्युः मारीं प्रत्यक्षं दृष्टुमिव दिवङ्गतः सः । मृतदेहस्य संस्कारमपि सुष्टु दातुं न शशाक पुत्रः। माता किञ्चित् स्वस्था भूत्वा गृहमागता। किंतु तस्यै समाधान वचनानि वक्तुं यः को$पि बन्धुः न गृहमागतः मारीप्रसारभीत्या। सहस्राधिकमित्राणां बन्धूनां सत्वे$पि अनाथः इव संस्कारं प्राप्तः सः जनानुरागी वणिक्। पुत्रस्यापि तत्समये किं करणीयं किं अकरणीयं इति उपदेष्टुं वृद्धः न को$पि आगतः मारीप्रसरणं भवेदिति भीत्या । तस्य अन्तिमकाले शास्त्रवचनं सत्यं कर्तुमिव तेन सम्पादितं पुण्यं केवलं तेन सह गतम् ।
मित्राणि एषा मारी कथम् अस्माकं देहं प्रविशतीति न ज्ञायते । केवलं रोगलक्षणैः ज्ञायते वयं पीडिताः वा न इति। अतः किमपि रोगलक्षणं भवतु तत्र अनादरं परित्यज्य चिकित्सां कुर्वन्तु। प्रत्यहं यथाशक्ति प्राणायामं कृत्वा, तुलसीदलादि स्वीकृत्य उष्णजलं पीत्वा कषाय-क्वाथरूपमौषधं स्वीकृत्य अनामयाः भवेम। बहिर्गमनकाले, सम्भाषण समये जागरूकाः भवेम।
आमयो वा न सृष्टश्चेदौषधस्य वृथोदयः इति वचनानुसारं आमयं दूरीकुर्मः ।
अनुवादक: श्रीनिधि अभ्यङ्कर:
उपकर्ता चिदम्बर कुलकर्णि:
दोषा: दृष्टाश्चेत् अवश्यं सूचयन्तु । तेनैव साधु लेखनं शक्यं भवति।
मम लेखनानां कृते पश्यन्तु तथा स्वाभिमतं प्रकटयन्तु
ಕಾಮೆಂಟ್ಗಳು
ಕಾಮೆಂಟ್ ಪೋಸ್ಟ್ ಮಾಡಿ