ಅನುವಾದಿತ ಕಥೆ ೧೯

अनूदित कथावलि: - १९

    गुणेषु क्रियतां यत्न:

एकस्मिन् ग्रामे चत्वारि मित्राण्यासन् । तेषां समेषां आशा महती आसीत्। भाविनि जीवने महत्तरं स्थानं वयं प्राप्स्याम:  इति चिन्तितं तै: । तदर्थं सर्वकारीयपरीक्षासु सदा भागं वहन्त: आसन् । 
एकदा ते ग्रामात् बहि:  नद्या: तीरे अटनार्थं तथा जलक्रीड़ार्थं गतवन्त: । तत्र तै: एक: पेरूकफलस्य बृहद्वृक्ष: दृष्ट: । तेषु एक: गूढं तद्वृक्षम्  अवलोक्य झटिति आरुह्य पेरुकं वियुज्य खादितुमारेभे।  अन्ये तमेव कौतुकेन ईक्षितुमारेभिरे । किंतु तत्र अधस्थात् अन्यानि फलानि वृक्षे सन्ति वा न वा इति न दृश्यते स्म।  तेषु द्वितीय: फलं स्यात् कस्याञ्चित्  शाखायां इति मत्वा यावच्छीघ्रं आरुह्य फलं प्राप्य भक्षितवान् । 

तदा अवशिष्टौ द्वौ चिन्तितुमारेभाते - हन्त, फलानि बहूनि न  सन्ति, आवां भाग्यहीनौ , पापिनौ स्व:  इत्यादि। किंतु अचिरादेव ताभ्यां चिन्तितम् - वृक्षस्तु बहुशाखायुक्त: , यत्र कुत्रापि एकं फलं  निश्चयेन स्यादित्यालोच्य सहसा आरोढुमारभेताम् । दशनिमेषाणां अन्वेषणेन ताभ्यां स्वादु पेरूकं प्राप्तं भक्षितं च ।

यदि तौ केवलं विधिं तर्जयन्तौ यत्नं त्यजन्तौ आस्तां तर्हि ताभ्यां पेरूकं दूरतोपास्तं स्यात्। किंतु यत्न: कृत: , प्राप्तं च पक्वं फलम् । 

अस्माकं जीवने$पि एतादृशा: बहव: अवसरा: दृश्यन्ते । यदि तत्समये यत्न: क्रियते तर्हि कदाचित् फलं प्राप्नुम: कदाचित् न । किंतु तेन जीवनानुभव: लभ्यते न कापि हानि: । अत: सदा यत्न: करणीय: ।
अजगरो$पि बुभुक्षितश्चेत् अटितुमारभते, किं वयं न ! । 
 
अनुवादक: श्रीनिधि अभ्यङ्कर: 
उपकर्ता चिदम्बर कुलकर्णि: 
दोषा: दृष्टाश्चेत् अवश्यं सूचयन्तु । तेनैव साधु लेखनं शक्यं भवति। 

ಕಾಮೆಂಟ್‌ಗಳು

ಈ ಬ್ಲಾಗ್‌ನ ಜನಪ್ರಿಯ ಪೋಸ್ಟ್‌ಗಳು

ಕಿರಾತಾರ್ಜುನೀಯ ಪರಿಚಯ

ಪ್ರತಿಮಾ ನಾಟಕ

ಸಂಸ್ಕೃತ ವಿಶೇಷ ಶ್ಲೋಕಗಳು ೩