ಅನುವಾದಿತ ಕಥೆ ೧೯
अनूदित कथावलि: - १९
गुणेषु क्रियतां यत्न:
एकस्मिन् ग्रामे चत्वारि मित्राण्यासन् । तेषां समेषां आशा महती आसीत्। भाविनि जीवने महत्तरं स्थानं वयं प्राप्स्याम: इति चिन्तितं तै: । तदर्थं सर्वकारीयपरीक्षासु सदा भागं वहन्त: आसन् ।
एकदा ते ग्रामात् बहि: नद्या: तीरे अटनार्थं तथा जलक्रीड़ार्थं गतवन्त: । तत्र तै: एक: पेरूकफलस्य बृहद्वृक्ष: दृष्ट: । तेषु एक: गूढं तद्वृक्षम् अवलोक्य झटिति आरुह्य पेरुकं वियुज्य खादितुमारेभे। अन्ये तमेव कौतुकेन ईक्षितुमारेभिरे । किंतु तत्र अधस्थात् अन्यानि फलानि वृक्षे सन्ति वा न वा इति न दृश्यते स्म। तेषु द्वितीय: फलं स्यात् कस्याञ्चित् शाखायां इति मत्वा यावच्छीघ्रं आरुह्य फलं प्राप्य भक्षितवान् ।
तदा अवशिष्टौ द्वौ चिन्तितुमारेभाते - हन्त, फलानि बहूनि न सन्ति, आवां भाग्यहीनौ , पापिनौ स्व: इत्यादि। किंतु अचिरादेव ताभ्यां चिन्तितम् - वृक्षस्तु बहुशाखायुक्त: , यत्र कुत्रापि एकं फलं निश्चयेन स्यादित्यालोच्य सहसा आरोढुमारभेताम् । दशनिमेषाणां अन्वेषणेन ताभ्यां स्वादु पेरूकं प्राप्तं भक्षितं च ।
यदि तौ केवलं विधिं तर्जयन्तौ यत्नं त्यजन्तौ आस्तां तर्हि ताभ्यां पेरूकं दूरतोपास्तं स्यात्। किंतु यत्न: कृत: , प्राप्तं च पक्वं फलम् ।
अस्माकं जीवने$पि एतादृशा: बहव: अवसरा: दृश्यन्ते । यदि तत्समये यत्न: क्रियते तर्हि कदाचित् फलं प्राप्नुम: कदाचित् न । किंतु तेन जीवनानुभव: लभ्यते न कापि हानि: । अत: सदा यत्न: करणीय: ।
अजगरो$पि बुभुक्षितश्चेत् अटितुमारभते, किं वयं न ! ।
अनुवादक: श्रीनिधि अभ्यङ्कर:
उपकर्ता चिदम्बर कुलकर्णि:
दोषा: दृष्टाश्चेत् अवश्यं सूचयन्तु । तेनैव साधु लेखनं शक्यं भवति।
ಕಾಮೆಂಟ್ಗಳು
ಕಾಮೆಂಟ್ ಪೋಸ್ಟ್ ಮಾಡಿ