ಕಥಾ ೧
प्रामाणिक चिन्तनम्
एकदा राजा चन्द्रगुप्तः चाणक्येन साकं जनानां सुखदुःखे विचार्य परिहर्तुं सामान्य वेषेण नगर सञ्चारार्थं गत:। तस्मिन् समये सर्वत्र शीतबाधा आसीत्। शीतवायुना पीडितान् ग्रामीणान् दृष्ट्वा राजा सर्वेभ्यः निर्धनेभ्यः कम्बलं दातव्यं इति चाणक्यं प्रति आदिदेश।
राज्ञः आज्ञानुसारं नूतनानि कम्बलानि आनीय सर्वेषां दातुं चाणक्यस्य गृहे सेवकाः स्थापितवन्तः। तद्दिने चोराः रात्रौ तानि कम्बलानि चोरयितुकामाः चाणक्यस्य गृहं आगतवन्तः। तत्र तानि नूतनानि कम्बलानि दृष्ट्वा मुदिताः ते चोराः समीपे एव चाणक्यः तथा तस्य माता जीर्णानि कम्बलानि उपयुज्य निद्रां कुर्वन्तौ दृष्ट्वा विस्मिताः बभूवुः।
ततः तौ निद्रात् उत्थाप्य एवं पृष्टवन्तः चोराः ' अत्र नूतनानि सन्त्यपि भवद्भ्यां कुतः जीर्णानि कम्बलानि उपयुज्यते इति। तदा चाणक्यः समाधानेन एवम् उक्तवान् ' एतानि कम्बलानि नूतनानि सत्यं, किंतु तानि कम्बलानि निर्धनानां कृते आनीतानि। यदि अहमेव तस्य उपयोगं करोमि तदा मम तथा भवतां मध्ये को भेदः स्यात्! इति। चोराः तस्य वचनं श्रुत्वा लज्जया चाणक्यं क्षमां प्रार्थ्य तत्त्यक्त्वा गतवन्तः। एतदेव प्रामाणिकतायाः शक्तिः।
ಕಾಮೆಂಟ್ಗಳು
ಕಾಮೆಂಟ್ ಪೋಸ್ಟ್ ಮಾಡಿ