ಕಥಾ ೨

समयप्रज्ञा

पूर्वं विवेकानन्दः विश्वविद्यालये पठन् आसीत्। तदा सर्वत्र देशे आङ्ग्लाः भारतीप्रजानां द्वेषं कुर्वन्तः आसन्। तस्मिन् विद्यालयेपि पीटर् नामकः  एकः प्राध्यापकः भारतं बहु द्विषन् आसीत्।

एकदा विवेकानन्दः भोजनं कर्तुं उपाहारमन्दिरं गतवान्। तत्र गुरुं पीटरमहोदयं दृष्ट्वा तत्सकाशे उपविष्टवान्। तदा सः पीटरः एतं दृष्ट्वा मुखे तिरस्कारं प्रदर्शयन्  एवं उक्तवान् ' कुत्सितसूकरस्य समीपे उपविश्य यः कोपि निर्मलखगः न भोक्तुमिच्छति ' इति। तच्छ्रुत्वा तस्य वचनस्थां ध्वनिं अलक्षयन् विवेकानन्दः तमेव पश्यन् हसन्नेव  एवमुक्तवान् ' तथा सति न कोपि हानिः, अहं खगवत् दूरं उड्डयन् अन्यत्र गत्वा अश्नामि ' इति ।  तेन कुपितः सः प्राध्यापकः परेद्युः कक्षायां तस्मै अवमानं कर्तुमिच्छन् प्रश्नमेकं पृष्टवान् ' हे नरेन्द्र, यदि त्वया धनस्यूतमेकं तथा विवेकस्यूतमेकं दृष्टम् चेत् तदा किं स्यूतं त्वं प्राप्तुमिच्छसि ' इति। तदा नरेन्द्रः सहजतया 'अहं तु निश्चयेन धनस्यूतमेव स्वीकरोमि ' इति उत्तरितवान् ।

तदा पीटरः महाशयः व्यङ्ग्यं एवमुक्तवान् ' यदि अहं तव स्थाने  तदा निश्चयेन अहं विवेकस्यूतमेव चिनोमि ' इति । तदा सर्वे छात्राः करताडनं कृतवन्तः।

तस्मिन् समये विवेकानन्दः शान्तस्वरेण एवमुक्तवान् ' गुरुवर्य, बहु समीचीनम्, यस्य समीपे यत् नास्ति  सः  तमेव अभिलषति ' इति। एतदाकर्ण्य तस्य गिरौ विद्यमानं गूढार्थं अवलोक्य कक्षायां मौनम् सञ्जातम्। पीटरस्य वदनं तु विवर्णं जातम् ।

ततः परेद्युः कक्षायां तेन परीक्षा कृता । तस्य उत्तरपत्रिकाः दातुमुद्युक्तः सः विवेकानन्दस्य पत्रिकायाम् अङ्कानि अदत्त्वा 'रे मूर्ख:' इति सम्बोधितवान् तदा विवेकानन्दः सावधानेन मनसा उत्थाय एवमुक्तवान् ' भो: आचार्याः , भवन्तः मम उत्तरपत्रिकायां अङकाः लेखितुं विस्मृत्य केवलं हस्ताक्षरं कृतवन्तः' इति। तेन अवमानितः सः ततः प्रभृति न कदापि विवेकानन्दं प्रहसितवान् ।

परदूषणात् पूर्वं स्वविमर्शः वरम् ।

अनुवादः= श्रीनिधिः अभ्यङ्करः

ಕಾಮೆಂಟ್‌ಗಳು

ಈ ಬ್ಲಾಗ್‌ನ ಜನಪ್ರಿಯ ಪೋಸ್ಟ್‌ಗಳು

ಕಿರಾತಾರ್ಜುನೀಯ ಪರಿಚಯ

ಪ್ರತಿಮಾ ನಾಟಕ

ಸಂಸ್ಕೃತ ವಿಶೇಷ ಶ್ಲೋಕಗಳು ೩