ಕಥಾ ೩

      अनुवादित संस्कृत कथा सरणिः =३
              श्रद्धायाः महत्वम्

एकदा एकः पुरुषः तस्य पुत्रौ साकं मार्गे गच्छति स्म। कनिष्ठं सः कटौ उपविश्य, अपरस्य हस्तं स्वयं धृत्वा ताभ्यां कथाः श्रावयित्वा सन्तोषेण गच्छन् आसीत्। तत्समये गगने बहवः खगाः चित्ताकर्षकरीत्या उड्डयन्तः आसन्। तानि दृष्ट्वा मोहितः द्वीतीयः बालः पितुः हस्तं परित्यज्य विहगवेष्टितदृष्टिः अकस्मात् मार्गे पतितः। तेन तस्य केचन व्रणाः अपि अभूवन्। तस्मिन् समये एव कट्युपविष्टः बालः तानि विहगानि पश्यन् मुदा हस्तौ ताडयन् आनन्दं अनुभवति स्म। किन्तु तस्मै न कश्चित् समजनि। तथा च पितुः साकं नीयमानः सः द्वितीयः बालः तस्य पाणिग्रहणस्य महत्वं तदाप्रभृति सम्यक् ज्ञातवान्।

अस्माकं जीवनेपि अहर्निशं प्रतिक्षणं भगवतः स्मरणेन साकं कार्यं यदि कुर्मः तदा अस्मद् विषये सः सर्वं पालयति। परं यदि तस्य स्मरणं त्यक्त्वा मम इति सर्वेषु कार्येषु अहं भावः तर्हि बालः इव कष्टं दुःखं च अनुभवामः।

     ।श्रद्धा एव सर्वदा करणीया।

ಕಾಮೆಂಟ್‌ಗಳು

ಈ ಬ್ಲಾಗ್‌ನ ಜನಪ್ರಿಯ ಪೋಸ್ಟ್‌ಗಳು

ಕಿರಾತಾರ್ಜುನೀಯ ಪರಿಚಯ

ಪ್ರತಿಮಾ ನಾಟಕ

ಸಂಸ್ಕೃತ ವಿಶೇಷ ಶ್ಲೋಕಗಳು ೩