ಕಥಾ ೫
संस्कृत अनुवादित कथा सरणिः- ५
आसक्तिः भूषणं न तु दूषणम्
पुरा एकस्मिन् ग्रामे चिन्नप्पाख्यः एकः कुलालः अतीव आसक्त्या तथा कुशलतया विविध आकारेण घटान् करोति स्म। तस्मिन्नेव ग्रामे वेंकप्पनामा अन्यः कुलालः केवलं धनवाञ्छया त्वरित गत्या विना कौशलं सोपि घटान् करोति स्म । द्वौ अपि यदा विपणिं घटं विक्रेतुं गतौ तदा चिन्नप्पस्य सुन्दरान् तथा सुरूपान् घटान् विलोक्य आकर्षिताः जनाः तस्य समीपमागत्य तेनोक्तं मौल्यं दत्त्वा घटान् प्राप्नुवन्ति स्म। किंतु यंकप्पेन उच्चैः वारं वारं आह्वानिताः अपि जनाः तस्य घटान् न क्रीणन्ति स्म। तथापि सः यंकप्पः आगतान् जनान् मृदु वचनैः आकर्षयन् , एतान् घटान् गृहं प्रति नयन्तु यावत् धनं भवद्भ्यः रोचते तावता अलम् इत्यादि वचनैः तथा अन्यैः विविध उपायैः कष्टेन विक्रीणन् आसीत्।
एवं काले गते ये वेंकप्पसकाशात् घटान् क्रीतवन्तः तेषां घटाः अविलम्बेन नष्टाः जाताः। एतेन क्रुद्धाः तथा दुःखिताः जनाः तं मनसि एव भर्त्सयन् अन्यान् घटान् आनेतुम् चिन्नप्पसमीपे आगतवन्तः। सः निधानेन सुन्दरम् तथा दृढं यथा स्यात् तथा घटनिर्माणं करोति स्म। यदा बहवः जनाः एकदैव आगताः तदा सर्वे घटाः विक्रीताः । सः तैः बहुधनं प्राप्तवानपि पूर्वतनरीत्या घटान् निर्माति स्म। तथापि जनाः तस्य समीपं आगत्य अस्मदर्थं भवान् घटान् कुरु, यदा ते रचिताः भवन्ति तदा आगत्य नयामः, इदानीं तु भवान् धनं गृह्णातु इति यथेष्टं धनं दत्त्वा गच्छन्ति स्म। काले गते कर्मणि कौशलस्य तथा आसक्तेः अभावात् घटव्यापारे नष्टं अनुभूय वेंकप्पः दरिद्रः सञ्जातः। चिन्नप्पस्तु दिने दिने स्वगुणानि वर्धयन् लक्ष्म्याः सोदरः सञ्जातः।
किमेतत् कथायां ज्ञायते इति चेत् 'योगः कर्मसु कौशलं' इत्युक्तरीत्या कर्मणि यदि कुशलाः तथा आसक्ताः यदा भवेम तदा वाञ्छितं सर्वं प्राप्तुं शक्नुमः।
अनुवादः: श्रीनिधिः अभ्यङ्करः।
ಕಾಮೆಂಟ್ಗಳು
ಕಾಮೆಂಟ್ ಪೋಸ್ಟ್ ಮಾಡಿ