ಕಥಾ ೩
संस्कृत अनुवादित कथा सरणिः = ४
पुरा एकः दरिद्रः दारिद्र्येण बहू पीडाम् अनुभवति स्म। एकदा सः धनिकस्यैकस्य समीपे ऋणं याचितवान् । सः धनिकः तु दरिद्रस्य स्वामिनिष्ठं श्वानम् एकं न्यासरूपेण स्वीकृत्य तस्मै ईप्सितं धनं दत्तवान्।
एकदा धनिकस्य गृहे तस्कराः चौर्यं कर्तुं प्रविष्टाः। एषः श्वा तान् चोरान् दृष्ट्वा उच्चैः भषणं कृत्वा तेषां उपरि आक्रमणं कृतवान् । तस्मात् भीताः ते तस्कराः सर्वं द्रव्यं परित्यज्य पलायिताः।
शुनकस्य स्वामिनिष्ठां दृष्ट्वा बहु मुदितः धनिकः दरिद्रस्य ऋणं मोचयितुकामः शुनस्य कण्ठे फलकमेकं बद्ध्वा तत्र अद्य प्रभृति तव ऋणम् मोचितम् इति विलिख्य दरिद्रस्य गृहं प्रति प्रेषितवान्। दरिद्रस्तु अविलम्बेनागतं श्वानं दृष्ट्वा एतत् श्वा अनीतियुतः इति मन्वानः बलेन ताडितवान् । तेन सः श्वा मृतः। ततः किञ्चिद् कालान्तरे तस्य कण्ठस्थितं फलकं दृष्ट्वा बहु दुःखम् अनुभूतवान् दरिद्रः।
अस्याः कथायाः नीतिः किमपि कार्यं अविचार्य न करणीयम्। विचार्य कार्यं साधनीयम् ।
अनुवादः: श्रीनिधिः अभ्यङ्करः।
ಕಾಮೆಂಟ್ಗಳು
ಕಾಮೆಂಟ್ ಪೋಸ್ಟ್ ಮಾಡಿ