ಕಥೆ ೪
संस्कृत अनुवादित कथा सरणिः- ४
एकदा बृहत् नद्याः तटे द्वे मित्रे विहरतः आस्ताम्। नद्याः प्रवाहः तु तद्दिने बहु वेगयुतःतथा गभीरः आसीत्। तौ तां जलराशिं दृष्ट्वा मुदितौ परस्परं विशेषवस्तूनि पश्यन्तौ कालं नयन्तौ स्तः।
तत्समये झटिति उपरि प्रदेशात् आगतः कश्चन कृष्ण वर्णः पदार्थः ताभ्यां दृष्टः। प्लवनकुशलो एकः अविलम्बेन मित्रमुवाच ' रे मित्र , तत्र पश्य, नद्यां तीर्यमाणं वस्तु एकं कम्बलम् निश्चितम् स्यात्, मया तत् वाञ्छितंम्, अतः यावछ्शीघ्रं जले प्रविश्य तं आनयामि, मत्प्रतीक्षां कुरु' इति। एवमुक्त्वा सः तत्क्षणे बाहुतरणेन जले गच्छति, तद् द्रव्यं प्राप्य मित्रं प्रति उच्चैः उक्तवान् ' सखे, एतत् न कम्बलं, अपि तु एषः भल्लूकः ' इति। तदा तटस्थेन उक्तं ' तथा सति तं त्यज, आगच्छ' इति। तदा शोकेन सः तस्मै मित्रं उक्तवान् ' अरे, किं करोमि, मया त्यक्तोपि एषः न मां त्यजति' इति।
को विशेषः अस्याः कथायाः इत्युक्ते अस्माकं जीवनेपि अस्माभिः यत् वाञ्छितं भवति तस्य विषये वारं वारं चिन्तनम् कर्तव्यम्। नो चेत् कदाचित् भल्लूकः वा ऊलूको वा लभेत्, अस्मत् परिश्रमः व्यर्थः भवेत्।
अनुवादः: श्रीनिधिः अभ्यङ्करः।
ಕಾಮೆಂಟ್ಗಳು
ಕಾಮೆಂಟ್ ಪೋಸ್ಟ್ ಮಾಡಿ