ಅನೂದಿತಕಥಾವಲಿ ೩೪
अनूदितकथावलिः -३४
......... सङ्घे शक्तिः .............
एकस्मिन् जनपदे राज्ञा एका स्पर्धा आयोजिता। वेगेन यः शीघ्रं धावन् निर्दिष्टस्थलं गच्छति सः विजयी भवतीति । ये तत्र विजयं प्राप्नुवन्ति तेषां कृते आशा पारितोषकरूपेण दीयते इत्यपि उद्घोषितवान् । सर्वे$पि भागं ग्रहीतुं शक्नुवन्ति । तत्र विशेष नियमः आसीत् यत् समूहरूपेण सर्ववयस्काः मिलित्वा तस्यां स्पर्धायां भागं ग्रहीतुं शक्नुवन्ति इति । एकैकस्य समूहस्य एकवारम् अवकाशः लभ्यते स्म । सर्वैः समूहसदस्यैरपि निर्धारितं दूरं यथाकथञ्चिदपि गन्तव्यम् इति ।
विहितसमये स्पर्धा आरब्धा । प्रथमसमूहे अनेकजनाः आसन् । तेषु युवानः अत्यन्तवेगेन धावमानाः आसन् । किंतु तत्र समूहस्थाः वृद्धाः, बालाः तेषां वेगेन गन्तुं अशक्ताः मध्ये एव पतिताः । समूहस्थैः सर्वैरपि न उद्देशः साधितः इति ते पराजिताः ।
द्वितीयसमूहस्यापि स्पर्धा यदा आरब्धा तदा तत्रस्थाः पुरुषाः मनसि एवं चिन्तितवन्तः । वयं वेगेन प्रथमं गमिष्यामः, शिष्टाः भवत्यः सर्वाः महिलाः वृद्धान् तथा बालान् गृहीत्वा निधानेन आगच्छन्तु । वयं शीघ्रं गमिष्यामः इति। तेन असन्तुष्टाः स्त्रियः स्पर्धया विमुखाः अभवन् । तस्मात् ते$पि पराजिताः ।
ततः तृतीयसमूहः स्पर्धार्थं आगतः । ते सर्वे मिलित्वा एवं विचारयामासुः । अस्मासु न को$पि भेदः । सर्वे परस्परं उपकारं कुर्वन्तः एव स्पर्धां पूरयिष्यामः इति । न केनापि अहमहमिका दर्शितव्या इति । तथा पूर्वसङ्कल्पितप्रकारेण ते परस्परं उपकारं कुर्वन्तः निश्चितं दूरं प्राप्तवन्तः । तेन तुष्टः राजा तेषां समेषां कृते आशारूपं पारितोषकं प्रदत्तवान् ।
अस्माकं जीवनमपि एका धावनस्पर्धा। यदा स्वार्थं परित्यजामः तदा परो$पि मत्सदृशः इति धिया अन्येषां विजयः अस्माभिः अपेक्ष्यते। तदा आरोग्यं-शान्तता उभयमपि मिलित्वा वयं सुखं अनुभवामः । ये तु स्वार्थं न त्यजन्ति ते तु आमयपीडिताः वा अशान्तमनसः भूत्वा लोकं नरकवत् पश्यन्ति जानन्ति च। तथा च वयमपि आशां प्रतीक्षन्तः स्वार्थं त्यजन्तः जीवनं नन्दनवनं कुर्मः ।
अनुवादक: श्रीनिधि अभ्यङ्कर:
उपकर्ता चिदम्बर कुलकर्णि:
दोषा: दृष्टाश्चेत् अवश्यं सूचयन्तु । तेनैव साधु लेखनं शक्यं भवति।
मम लेखनानां कृते पश्यन्तु तथा स्वाभिमतं प्रकटयन्तु
नम्रः
http://shreenidhiabhyankar.blogspot.com/?m=1
ಕಾಮೆಂಟ್ಗಳು
ಕಾಮೆಂಟ್ ಪೋಸ್ಟ್ ಮಾಡಿ