ಅನುವಾದಿತ ಕಥೆ ೩೨

अनूदित कथावलिः -३२

श्रेष्ठिनः विवेकः 

एकस्मिन् नगरे एकः प्रसिद्धः श्रेष्ठी आसीत् । सः बहुवत्सरेभ्यः आपणे व्यापारं करोति स्म। तस्य आपणे सर्वदा जनसम्मर्दः । तन्नगरस्थः एकः युवा वाणिज्यविद्यां अधीत्य स्नातको भूत्वा आपणम्  आरब्धुं निश्चितवान् । श्रेष्ठिनः आपणे जनसम्मर्दं दृष्ट्वा तेनैवं चिन्तितम् - यदि अहमत्रैव समीपे आपणं स्थापयामि तदा ममापि यशः लभेदिति। 

एवं विचार्य अचिरादेव तदापणम् अभितः एव स्वस्य  आपणं स्थापयित्वा व्यापारः आरब्धः तेन  । सप्ताहानन्तरं तेन चिन्तितम्- तस्मिन् आपणे जनाः यथापूर्वं गच्छन्ति, अत्र तु न्यूनाः इति। तथा च मया   को$पि उपायः अनुसरणीयः इति। अध्ययन काले गुरुणा सः उपदिष्टः एवम्   'वस्तूनां मौल्यस्य न्यूनताकरणेन प्रथमं व्यापारस्य अभिवृद्धिः तथा इतरैः  स्पर्धा योजयितुं शक्यते इति। तदनुसृत्य श्रेष्ठिनः आपणे दशरूप्यकपरिमितस्य नारिकेलस्य अष्टरूप्यकाणि निर्धारितवान् । श्रेष्ठी अपि अष्टरूप्यकाणि स्थापितवान् नारिकेलस्य। ततः चिन्तितः युवा न आयः न व्ययः इति नीतिः प्रदर्शितुकामः तस्य मूलरूप्यकाणि नाम षड्रूप्यकाणि निश्चितवान्। 

श्रेष्ठिनापि तदेव अनुसृतम् । पुनः युवकेन चिन्तितम्, एवं कृते मम व्यापारः न अभिवृद्धः भवितुं शक्यते। यथाकथञ्चित् व्यापारे  यशः प्राप्तुं गुरुणा बोधितं तन्त्रमेकं अनुसरामि इति। तदनुसारेण नष्टः भवेत्। तथापि व्यापारे वृद्धिः भवेदिति मत्वा कृषकेभ्यः  पञ्च रूप्यकाणि दत्वा क्रीतस्य नारिकेलस्य चतुर्रूप्यकाणि निर्धारितवान्। श्रेष्ठिना तन्मार्गः अचिरादेव अनुसृतः । एवं मासद्वये समाप्ते किंकर्तव्यविमूढ़ः युवकः व्यापारे बहुनष्टं अनुभूतवान् । 

एकदा काफीं पातुकामः सः समीपस्थं उपहारमन्दिरं गतवान् तदा श्रेष्ठी अपि तत्र आसीत्। एतेन पृष्टम् - महोदय, मया सह स्पर्धामनोभावेन भवानपि नष्टं अनुभूतवान् किलेति । तदा तेनोक्तम् - अरे बाल, अहम् एतावत्पर्यन्तं व्यापारे नष्टं नानुभूतवान् । यदा भवान् वस्तूनां मौल्यं न्यूनं चकार तदा तव आपणे एव तानि क्रीत्वा अहं विक्रयणं अकरवं  मम आपणे। नत्वन्यथा। अतः अधुनापि मया नष्टः नानुभूतः , किंतु लाभः पूर्वं यावान् आसीत् तावान् नास्ति इति। एतछ्रुत्वा युवकेन निश्चितम् - केवलाध्ययनं न जीवनोपयोगी भवति, अनुभवः अपि अवश्यकः इति ।

तदर्थमेव उक्तम् - विना लोकानुभवं किमपि अकरणीयम् इति । 

अनुवादक: श्रीनिधि अभ्यङ्कर: 
उपकर्ता चिदम्बर कुलकर्णि: 
दोषा: दृष्टाश्चेत् अवश्यं सूचयन्तु । तेनैव साधु लेखनं शक्यं भवति। 
मम लेखनानां कृते पश्यन्तु तथा स्वाभिमतं प्रकटयन्तु 
नम्रः
http://shreenidhiabhyankar.blogspot.com/?m=1

ಕಾಮೆಂಟ್‌ಗಳು

ಈ ಬ್ಲಾಗ್‌ನ ಜನಪ್ರಿಯ ಪೋಸ್ಟ್‌ಗಳು

ಕಿರಾತಾರ್ಜುನೀಯ ಪರಿಚಯ

ಪ್ರತಿಮಾ ನಾಟಕ

ಸಂಸ್ಕೃತ ವಿಶೇಷ ಶ್ಲೋಕಗಳು ೩