ಅನುವಾದಿತ ಕಥೆ ೧೮

अनूदित कथावलि-१८

परोपकार: पुण्याय

चन्द्र: निशाया: आगमनं प्रतीक्षते स्म। गृहस्य निर्यूहे एक: रव: आकर्णित: मया, इदानीं क: आगत: इति विचार्य यदा बहि: गतवान् तदा  एक: वृद्ध: गृहसंख्यां कष्टेन अन्विषति स्म। स: जीर्णानि वस्त्राणि धृतवान् आसीत्, तस्य हस्ते एकं स्यूतं  च । यदा तं गूढं दृष्टवान् तदा ज्ञातम् बहुदूरं यानं कृत्वा अत्रागत: ,मार्गायासेन खिद्यमानो$पि अस्ति इति । हस्ते विद्यमानं पत्रं पठित्वा तेन पृष्टो$हम् - एतत् आनन्दस्य गृहं किल, एष: योगानन्द मार्ग: ननु ? इति । 

आम् , अहमेव आनन्द: , त्वया अन्विष्यमाणं गृहं एतदेव इत्युक्तवान् । तस्य हस्तौ  कम्पमानौ, अधरौ तृष्णया पीडितौ च दृश्यन्ते स्म। तव ग्रामादागतो$स्मि, तव पित्रा एवमुक्तम् - गच्छ मम पुत्राय एतत् पत्रं ददातु, स: तुभ्यं साहाय्यं करिष्यति इति   । 

अहं चकितमना: किं मम पित्रा इति पृष्ट्वा तत् पत्रं पठितुमारेभे - नन्दनाय आनन्दाय तव पितु: आशिष: , एष: मम मित्रम् , सज्जन: सरलश्च। सप्ताहात् प्राक् तस्य पुत्र: मार्गमध्ये दुर्घटनायां पञ्चत्वम् आप्तवान् ।  दुर्घटनायां मृतस्य बन्धुभ्य: परिहार रूपेण  दीयमानं धनं स्वीकर्तुम् एष: मम आग्रहादागच्छति त्वत्समीपे ,वस्तुतस्तु तदपि नेच्छत्येष:  । परं तस्य गृहस्य आधार: तस्य पुत्र: एव आसीत्  । तदभावे एतौ धनविहीनौ कथं जीवनं नयेताम् इति विचार्य मया एवं कृतम् । तद्विषयकसर्वपत्राणि तस्य समीपे सन्ति। स: पुत्र: भाग्यनगरे एकस्यां संस्थायां कार्यं कुर्वन्नासीत् । पित्रा तु तत् विशालं नगरं न कदापि दृष्टम् । त्वं तस्मै उपकारं करोषीति धिया प्रेषितवानहम् । तत्र आरोग्यविषये जागरूको भव। अकारणं मा अटतु। विरामकाले अवश्यं ग्राममागच्छ । 

 इति भवदीय: पिता ।

वृद्ध: मामेव पश्यति स्म । द्वित्रिक्षणाभ्यन्तरं मनसिविचार्य तं गेहस्य अन्त: आहूतवान् । पानीयार्थे जलं दत्वा मार्गे किमपि खादितं त्वया इति पृष्टवान् , न किमपि इत्युक्तवान् । तत: दोसां पक्त्वा अवलेहेन साकं दत्तवान् । बुभुक्षितो$पि स: सङ्कोचेन खादितुमारेभे। तत: मम प्रकोष्ठं गत्वा मित्रै: साकं  दूरवाण्यां संभाषयित्वा पुन: प्रधानप्रकोष्ठं आगतवान् । तेन कानिचन पत्राणि दत्तानि। तत्र तत्पुत्रस्य चित्रमपि आसीत् ।

क्षणमेकं तद्दृष्ट्वा दु:खितो$भूवम् । सुन्दर: तरुण: द्वाविंशद्वर्षीय:  विधिना अपहृत: । तेनोक्तम् पुन: - एष: मम एकैव पुत्र: , महेश नामक: , उत्तमं विद्यार्जनं कृत्वा महत्यां अत्रत्यां संस्थायां उद्योगं आप्तवान् । मम जीवनस्य अन्तिमचरणे आधारो भविष्यतीति चिन्तितं मया। परं विधिविलास: अन्य: एव। मम पत्नी ज्वरपीडिता वर्तते। अत:  अहमेकैव आगतो$स्मीति। 

प्रातरुत्थाय उपहारमन्दिरे इड्लि भक्ष्यं खादयित्वा  तस्या: संस्थाया: प्रधान कार्यालयं तं नीतवान् । तेनोक्तम् - अधुना त्वं  कार्यक्षेत्रं गच्छ , धन्यवादः इति। न तथा, अहमद्य एकदिनात्मकं विरामं स्वीकृतवान् , कार्यसमाप्ति पर्यन्तं त्वया सहैव तिष्ठामि इति  भणितं मया। 

सायं सर्वाणि तत्सम्बन्धि कार्याणि समाप्तानि । तस्मै धनपत्रमपि लब्धम् । स: तु मम बहुधा वन्दनं उक्त्वा - ग्रामे पत्नी एका एव, अत: अहमद्यैव यावच्छीघ्रं बस् यानेन गच्छामीति । मया तु लोकयानस्थानकम् गन्तुं त्रिचक्रिकां आहूय तत्र गत्वा यानपत्रं तथा मार्गमध्ये बुभुक्षार्थं कानिचन फलानि दत्वा तं वाहने उपवेश्य अनुज्ञा स्वीकृता। तदा स: आनन्देन अश्रूणि मुञ्चन् 'भो: त्वया बहुविधं उपकृतोहम् , तुभ्यं धन्यवादं वक्तुं पदानि न सन्ति मम समीपे, तव पित्रे$पि एतत्सर्वं कथयित्वा धन्यवादं अर्पयामि, यावज्जीवं  सुखं जीव' इत्याशी: दत्तवान् । 

तदा मयोक्तम् - भो: तात, अहं न त्वया अन्विष्यमाण: मित्रपुत्र: आनन्द: , अहम् अरविंद: । त्वं प्रमादात् मम सङ्केतं प्राप्तवान् । तव आगमनकाले रात्रिरासीत् । पुन: योजन पर्यन्तदूरे विद्यमानं आनन्दस्य  गृहं  प्रेषयितुं मम मन: नेप्सितम् ,अत: मया असत्यमुक्तम् । तव पुत्रस्य विषयं ज्ञात्वा दु:खं अनुभूय यत्किमपि साहाय्यं कर्तुं एष: अवसर: आगत: इति विचार्य एवमादि कृतम् । तदर्थं मां क्षम्यताम् ।  मम मन: इदानीं तृप्तिं अनुभवति।  

तदा स: मम हस्तौ धृत्वा भूयो भूयो नमांसि , भगवान् त्वद्विषये अनुगृह्णातु  इत्युक्तवान् । 

मया एवं चिन्तितं- मम पिता पञ्चदशवर्षेभ्य: प्रागेव पञ्चत्वमाप। यदा अहं तं स्थविरं अपश्यम् मम पिता एव  स्वर्गात् मां दृष्टुमागत: इति चिन्तितम्
। पित्रा मम परीक्षार्थम् अयं स्थविर: मत्समीपे प्रेषित: इत्यपि चिन्तितवान् । त्वत्सदृशस्य सज्जनस्य पुत्रो भूत्वा एवमादि किञ्चित् साहाय्यं अकृतं चेत् का नाम मम पुत्रता ! इति विचारयन् अश्रूणि पतितानि ।

अभिवादनशीलस्य नित्यं वृद्धोपसेविनः इति  उक्त्यनुसारं वृद्धानां सेवा अवश्यं करणीया, तत्र
 को$पि  सम्बन्ध: न अपेक्षित: । तेन आयु: , विद्या, यशो, बलानि वर्धन्ते । 

अनुवादक: श्रीनिधि अभ्यङ्कर: 
उपकर्ता चिदम्बर कुलकर्णि: 

दोषा: दृष्टाश्चेत् अवश्यं सूचयन्तु । तेनैव साधु लेखनं शक्यं भवति। 

मम लेखनानां कृते पश्यन्तु तथा स्वाभिमतं प्रकटयन्तु 
http://shreenidhiabhyankar.blogspot.in

ಕಾಮೆಂಟ್‌ಗಳು

ಈ ಬ್ಲಾಗ್‌ನ ಜನಪ್ರಿಯ ಪೋಸ್ಟ್‌ಗಳು

ಕಿರಾತಾರ್ಜುನೀಯ ಪರಿಚಯ

ಪ್ರತಿಮಾ ನಾಟಕ

ಸಂಸ್ಕೃತ ವಿಶೇಷ ಶ್ಲೋಕಗಳು ೩