ಅನುವಾದಿತ ಕಥೆ ೧೭

   अनूदित कथावलि: - १७

       आनन्देन जातानि जीवन्ति 

एकस्मिन् नगरे कश्चन योगी आसीत्। स: सर्वदा आनन्देन कालं यापयति स्म। कोरोना वा भवतु मरणं वा भवतु स: कथंचिदपि दु:खं न आप्नोति स्म। एकदा तस्य अनुचरा: कन्दुकक्रीडा विषयं तस्य समीपे अवदन् ।  तदा तेनोक्तम् - मया  कदापि सा स्पर्धा न दृष्टा'   इति।  

काले गते तन्नगरे श्रीमद्भि: प्रसिद्धगणेषु स्पर्धा आयोजिता । तद्वीक्षितुं सहस्राधिका: जना: आगता: । योगिन: अनुचरा: अपि योगिनं आग्रहं कृतवन्त: -भवतापि आगन्तव्यम् इति । तत: सोपि स्पर्धां   ईक्षितुम् गतवान् ।

क्रीडाsङ्गणे स्पर्धा आरब्धा आसीत् । एतेsपि आसनं स्वीकृत्य  क्रीडायां मग्ना: अभूवन् । द्वौ गणौ अपि नितरां बलिष्ठौ, अत्युत्साहेन क्रीडन्तौ आस्ताम् । गणस्यैकस्य क्रीडालु: कन्दुकस्य पश्चात् वेगेन धावन् तं  पेटिकायां पातितवान् । तदा तद्गणस्य अभिमानिजना: उच्चै: अहो अहो इति उद्घोषणं कृतवन्त: । तदा योगी अपि आसनादुत्थाय  स्वशिरस्त्राणं वायौ पर्यटन् उच्चै: साधु , अद्भुतम् इत्युक्त्वा उपविष्टवान् । 

एवं क्रीडा प्रचलन्ती आसीत्। अचिरादेव अपर गणस्य क्रीडालुरपि कन्दुके स्वामित्वं  प्राप्य पेटिकायां पातितवान् । तद्गणस्य अभिमानिजना: उच्चै: करताडनं कृतवन्त: । तदा एष: अपि उच्चै: करताडनं कृत्वा प्रोत्साहितवान् । तदा तस्य अनुचरा: तद्दृष्ट्वा किंकर्तव्यविमूढ़ा: अभवन् । तथाचैनं   पृष्टवन्त: - भो योगिन् त्वं कस्य गणस्य अभिमानी असि इति।  तदा तेनोक्तम् अहं कस्यापि गणस्य अभिमानी न । अहं तु केवलं  क्रीडाभिमानी अस्मि । अहं तेषां क्रीडनेन अपारम्  आनन्दं प्राप्नोमि  । 

वयमपि बहुधा चिन्तां कुर्म: , क्लेशं अनुभवाम: । यदा अस्माभि: एतत्सर्वं भगवत: लीलाविनोद: , तत्र क: शोक: क: क्लेश: इति विचिन्त्य सर्वत्र प्रवृत्ति: समीचीनतया क्रियते चेत् न कदापि दु:खं अनुभूयते। 

जनानां जीवनयापनं आनन्देनैव सम्भवति। सर्वदा दु:खं चेत् को नाम जीवितुमिच्छेत् , न कोपि। अत: कस्मिन् सन्दर्भेपि विषाद: नैव कार्य: । दैवाधीनं जगत्सर्वमिति विचिन्त्य सुखेन जीवाम: । एतदेव योगि लक्षणम् ।

अनुवादक: श्रीनिधि अभ्यङ्कर: 
उपकर्ता चिदम्बर कुलकर्णि: 
दोषा: दृष्टाश्चेत् अवश्यं सूचयन्तु । तेनैव साधु लेखनं शक्यं भवति। 

मम लेखनानां कृते पश्यन्तु तथा स्वाभिमतं प्रकटयन्तु 
http://shreenidhiabhyankar.blogspot.in
                       

ಕಾಮೆಂಟ್‌ಗಳು

ಈ ಬ್ಲಾಗ್‌ನ ಜನಪ್ರಿಯ ಪೋಸ್ಟ್‌ಗಳು

ಕಿರಾತಾರ್ಜುನೀಯ ಪರಿಚಯ

ಪ್ರತಿಮಾ ನಾಟಕ

ಸಂಸ್ಕೃತ ವಿಶೇಷ ಶ್ಲೋಕಗಳು ೩