ಅನುವಾದಿತ ಕಥೆ ೧೪

अनूदित कथावलि: -१४

           .......आत्मैव हि आत्मन: बन्धु:.....


नगरे गणकतन्त्रांशनिर्माणसंस्थायां एक: बहुकालात् कार्यं करोति स्म। तस्य सहोद्योगिन: तं सदा  दूरीकुर्वन्ति स्म । स: सर्वदा एवं चिन्तयति स्म - भाविनि जीवने अहं उन्नतस्थानं प्राप्स्यामि , मम स्वप्ना: सर्वे सत्यं भविष्यन्ति तथा अहं यत्र कुत्रापि  गमिष्यामि तत्र सर्वत्र जना: मम स्वागतं करिष्यन्ति इत्यादि। किंतु तादृशदिनानि न तस्मै आगतानि इत: पर्यन्तम्। तत्र कारणानि बहूनि वर्तन्ते- अनाकर्षकं  व्यक्तित्वं,  वचनेषु माधुर्यताया: अभाव: , विचित्रा अङ्गचेष्टा इत्यादय:। 

स: सदा तदेव चिन्तयति स्म - कथं जना: मम मित्रताम्  अङ्गीकुर्यु:, कथमहं तै: साकं सुमधुरं भाषणं करोमि, कथं मम साङ्गत्यं सर्वे वाञ्छेयु: इत्यादि। निद्रायां , जागृदवस्थायां , वासप्रकोष्ठे एवं यत्रकुत्रापि तस्य मन: चिन्तामग्नं भवति स्म । 

एतस्मिन्नेव काले  कार्यक्षेत्रे एका भुवनमनोहरी तरुणी  तस्य मन: आकर्षितवती  । एष: तु सा कदा मया ऊढा भवतीत्येव चिन्तयति स्म। एकस्मिन् दिने स: सहोद्योगिन:  नृत्य-पान-भोजनाय तन्नगरस्य प्रसिद्धां  मधुशालां आहूतवान् । ते तु तस्य आह्वानं अनिच्छन्त: नाना कारणानि उक्त्वा निराकृतवन्त: । तेन अतीव दु:खित: स: अस्तु,  अहमेको गत्वा यथेच्छं पीत्वा- खादित्वा नर्तनादिकं दृष्ट्वा रमे इत्यालोच्य तत्र यदा गच्छति तदा तस्य आगमनात् पूर्वमेव  सहोद्योगिन: आगत्य तत्र रमन्ते स्म। एतत् दृष्ट्वा नितरां खिन्नोपि स: तै: सह सम्भाषयितुं यत्नं करोति। तत्रापि ते सर्वे तं दूरीकुर्वन्ति। तस्य स्वप्नसुन्दरी अपि तद्दिने तत्र आगता आसीत् । तया साकं वाग्व्यापारं करोमि इति यदा समीपं गच्छति तदा सापि एनं दूरीकरोति। हन्त , मम पूर्वपुण्यम् अधिकं नास्ति , किं करोमि? इति मत्वा स: एकैव पानादिकं करोति। तेन अपमानेन लज्जित: भवति, बहुक्षणं रोदिति , तद्दिने निद्रयापि विहीनो भवति  । अपरेद्यु: भगवत: समीपे स: प्रार्थयति  -' हे करुणालो, अहं यत्किमपि त्वत्कृते करोमि, किंतु मह्यं  तां  स्वप्नसुन्दरीं यच्छतु' इति। यदा स: प्रार्थनामग्न: तदा समीपस्थ: एक:  प्रेत: तत् श्रुत्वा  समीपमागत्य कर्णे वदति - भो मम एका वाञ्छा वर्तते, तत् त्वं पूर्णं करोषि चेत् तुभ्यं  सप्त वरान् ददामि, तेन तु त्वं ईप्सितं अर्थं प्राप्तुं शक्नोषि इति। किंतु सप्तमवरस्य अन्ते तवात्मा मम वश: भविष्यति। एवं नियम:  अङ्गीक्रियते चेत् वरान् ददामि इति। 

पिशाचस्य वचनै: नितरां तुष्ट: स: आशादास: यदि मम वाञ्छापूर्णा भवति तर्हि  आत्मन: आवश्यकता कुत: भवेदिति विचार्य अस्तु इति प्रथमवरत्वेन एवं याचितवान्- अहं एतज्जगति अत्यन्तं बलिष्ठ: तथा धनवान् भवितुमिच्छामि तथा मम प्रियां पत्नीत्वेन प्राप्तुमिच्छामि इति। प्रेतस्तु अनुक्षणमेव तं मादकद्रव्यवणिजां राजानं अकरोत् । अपारधनराशि: , सहस्राधिका: सेवका:, मनसि या वृणीता  सैव सुन्दरी पत्नी इति सर्वं वाञ्छितं प्रथमेन वरेण एव प्राप्तवान् स: । परंतु विधे: निर्णय: अन्य: एव आसीत्। आरक्षकाणां अन्वेषण सूचिकायां  प्रथमतया अस्य नाम लिखितमासीत् । एवं या तेन ऊढा सा तु अन्यस्य  प्रेमपाशे पतिता आसीत्। यदा एतद्विषयं स: ज्ञातवान् तदा प्रेतं स्मृत्वा द्वितीयं वरं याचितवान् - अहं प्रसिद्ध: क्रीडालुर्भवेयम् । प्रेत: तदपि अङ्गीकृत्य मासाभ्यन्तरे तं विश्वश्रेष्ठं  क्रीडालुं कृतवान्  । तत: तत्रापि निराशा उत्पन्ना, पुन: कवि: ,पुन: राजकीयनेता इत्यादि बहु रूपं धृतवान् स: । किंतु या तस्य मनोमन्दिरे बहुकालात् पूजिता सा कथङ्कारमपि तं न प्रेम्णा दृष्टवती । 

अन्ते स: मनसि एवं निश्चयं कृतवान्।केवलया स्वार्थपूरितया  वाञ्छया न किमपि प्राप्तुं शक्यते । यदि वयं अन्यस्य वा सर्वेषां हितं वाञ्छयेम तर्हि  अस्माकमपि   कल्याणं भवेदिति। तत: पिशाचमाहूय सप्तमवरत्वेन तस्या: कल्याणं वाञ्छन् एवं प्रार्थितवान् - सा यत्र -कुत्रापि भवतु, तत्रैव सुखं प्राप्नोतु इति। तस्य प्रार्थनया प्रेत: चकित: अभवत्। उक्तवान् च तं प्रति - अद्य त्वं त्वदर्थे किमपि न वाञ्छितवान् , अहं नितरां तुष्टोस्मि त्वद्विषये। वरं दीयमानमपि तव आत्मा मया न वशीक्रीयते , यथेच्छं गच्छ, सुखेन जीव इति। 

तत: प्रभृति स: स्वस्य भाषणे, अङ्गचेष्टासु, क्रियमाणेषु  कार्येषु , व्यवहारेषु च अन्येषाम्  ईप्सितं ज्ञात्वा तत्र व्यत्यासं कृतवान्। तत: सर्वेपि तेन  सह मित्रतया ,प्रेम्णा च व्यवहारं कृतवन्त: । जनानुराग: अपि तेन प्राप्त: अचिरादेव। 

स्वार्थं परित्यज्य  यदा वयं व्यवहराम: तदा सहजतया सर्वे तेन नन्दन्ति । अत एव गीतायां उक्तम् - आत्मैव हि आत्मनो बन्धु: आत्मैव रिपुरात्मनः इति । पुरुषेण  यदि स्वार्थं परित्यज्य परेषां हितार्थं यत्न: क्रियते तर्हि  स: परमात्मन: लोकस्य च बन्धुर्भवति।

अनुवादक: - श्रीनिधि अभ्यङ्कर:
उपकर्ता-  चिदम्बर:

http://shreenidhiabhyankar.blogspot.in/

ಕಾಮೆಂಟ್‌ಗಳು

ಈ ಬ್ಲಾಗ್‌ನ ಜನಪ್ರಿಯ ಪೋಸ್ಟ್‌ಗಳು

ಕಿರಾತಾರ್ಜುನೀಯ ಪರಿಚಯ

ಪ್ರತಿಮಾ ನಾಟಕ

ಸಂಸ್ಕೃತ ವಿಶೇಷ ಶ್ಲೋಕಗಳು ೩