ಅನುವಾದಿತ ಕಥೆ ೧೬

अनूदित कथावलि: -१६

' युक्तियुक्तं वचो ग्राह्यं बालादपि शुकादपि' 

अस्माकं देशे विरागिषु श्रेष्ठ: बङ्गालदेशीय: रामकृष्ण परमहंस महोदय: । एकदा स: गुरुणा तोतापुरिणा सह स्नातुं नदीं गतवान् । गुरो: नित्यं अवश्यम् एकम् कार्यमासीत् । प्रत्यहं स्नानार्थमानीतं कमण्डलुं तिन्त्रिण्या  सुवर्णमिव यावत् न शोभते तावत्पर्यन्तं मार्जयति स्म । 

एकस्मिन् दिने यावत् गुरु: मार्जने निमग्न: तावत् किमपि आलोच्य रामकृष्ण: एवमुक्तवान् - आचार्य, भवान् कमण्डलुं बहुकालं कुत: मार्जयति ' इति। तदा गुरुणा उक्तम् - न किम्, केवलं शुद्ध्यर्थमेव। अस्माकं जीवने प्रत्येकस्मिन्नपि विषये शुद्धि: आवश्यकी ' इति। 
तदा शिष्येणोक्तम् - आचार्य, एवं वा, तथा सति एतज्जडस्य कमण्डलो: मार्जनं विहाय अस्माकं अन्त:करणस्य अविरतं मार्जनं क्रियते चेत् एवमादि बहि:शुद्धि: नावश्यकी किल! ' इति। 

तस्य वच: श्रुत्वा काष्ठमौन: गुरु: तस्य पादाभिवन्दनं चकार। तथा एवमुक्तं च तेन - एवंरूपं सामान्य विषयम् अप्यहं न चिन्तितवान्। अहं तु इत:पर्यन्तं भौतिकशुद्धौ  निमग्न: आसम् । तथा अहं तव गुरु: इति मम अहङ्कारोपि आसीत्, किंतु अद्यप्रभृति त्वमेव मम गुरु: इति। 

किमस्ति अस्यां कथायां विचिन्त्यमानं इति चेत् - अस्माभि: सर्वदा देहशुद्धौ, वस्त्रशुद्धौ, बाह्यालङ्कारेषु अधिका आसक्ति: प्रदर्श्यते । किं तु मनस: दुष्टविचारै:, निरर्थक विचारै: मार्जनं न कदापि क्रियते। यादृशी बाह्यशुद्धि: आवश्यकी तादृशी अन्तश्शुद्धिरपि आवश्यकी। नो चेत् ' कायेन वाचा ' इति श्लोकस्य पठनं केवलं जायते, न तु समर्पणम् ।

एवं द्वितीयविचारस्तु उत्तमं विषयं य: कोपि वदतु तत्र स्वीकारप्रवृत्ति: सर्वदा भवितव्या। ' बालादपि शुकादपि ' यदा सद्विचारा: आगच्छन्ति तदा निस्संशयं ते स्वीकरणीया: एव । तदा एव  अस्माकम् उन्नति:  भवेत् । 

तोतापुरिवर्यं तथा रामकृष्ण परमहंसं  वारं वारं नमामि। 

अनुवादक: - श्रीनिधि अभ्यङ्कर:
उपकर्ता-  चिदम्बर:

http://shreenidhiabhyankar.blogspot.in

ಕಾಮೆಂಟ್‌ಗಳು

ಈ ಬ್ಲಾಗ್‌ನ ಜನಪ್ರಿಯ ಪೋಸ್ಟ್‌ಗಳು

ಕಿರಾತಾರ್ಜುನೀಯ ಪರಿಚಯ

ಪ್ರತಿಮಾ ನಾಟಕ

ಸಂಸ್ಕೃತ ವಿಶೇಷ ಶ್ಲೋಕಗಳು ೩