ಅನುವಾದಿತ ಕಥೆ ೧೩
अनूदित कथावलि:--१३
अपात्र दानम्
पुरा एक: कृपण: धनिक: वसति स्म । तस्य समीपे अपारधनपत्राणि , रजत-सुवर्ण- वज्राभरणानि तथा नाणकानि आसन्। तस्य एक: पुत्र: आसीत् ।
यदाकदा कश्चित् याचक: आगच्छति चेत् कुत:-कस्मै-किमर्थम् इत्यादि बहु प्रश्नान् पृष्ट्वा यदि अवश्यं देयम् इति मनसि आयाति चेत् तर्हि धनं ददाति स्म स:। नो चेत् एकं नाणकमपि न यच्छति स्म अन्यस्मै। लक्ष्मी: चञ्चला, स्ववशे नानीता चेत् परवशं गच्छति, व्यय: सावधानतया कर्तव्यम् इति।
तस्य पत्नी तु पत्यु: कृपणत्वेन अपरितुष्टा मनसि दु:खम् अनुभवति स्म। सा पुत्रम् आहूय सर्वदा एवं बोधयति स्म - वत्स! परोपकारार्थमेव भगवता अस्मत्कृते बहुधनं दत्तम् । येषां अवश्यं भवति तेषां कृते विनाप्रश्नं धनं दातव्यम् । कुत इति चेत् अत्र स्वामी केवलं भगवानेव। वयं वितरका: एव इति। भवान् आगामिनि काले दानी भविष्यति किल इति। पुत्र: मातु: वचनै: प्रभावित: । जननी एव प्रथमाध्यापिका किल।
कालो गत: । स: धनी विधे: आह्वानं स्वीकृत्य दिवङ्गत: । पुत्र: सर्वा: सम्पद: प्राप्तवान् । अचिरादेव स: तस्य ग्रामस्य चतुर्षु दिक्षु धर्मशालां स्थापितवान् । तत्र य: कश्चन आगमिष्यति चेत् तस्मै रुचिकरं भोजनं, निद्रार्थं शय्या, वासार्थं प्रकोष्ठ: इत्यादि सौलभ्यानि दत्तवान्। तत्सर्वं विनाशुल्कं दीयमानम् आसीत् ।
केचित्कालानन्तरं एष: विषय: सर्वत्र प्रसृत: । जना: बहुसंख्याका: आगत्य तत्रैव उषित्वा भोजनादि कृत्वा सुखेन कालं यापयन्ति स्म। तस्य दानस्य महिमा चतुर्दशलोकेपि प्रथिता ।
देशविदेशस्था: जना: तत्र आगत्य यथेच्छं खादित्वा बहुदिनानि उषित्वा गच्छन्त: आसन्। एतेन अनेके प्रजा: अलसा: सञ्जाता:। कार्याणि अकृत्वैव खादितुं मृष्टान्नं लब्धं भवति, शय्या अपि सन्नद्धा विद्यते धनिकस्य आश्रमे। किं करणीयम्, किम् अकरणीयम् इति विस्मर्तुम् आरब्धा: तत्रस्था: जना: ।
एतत्सर्वं विज्ञाय कुपित: स्वर्गाधिप: इन्द्र: श्रीमते वस्तुस्थितिं न्यवेदयितुम् उपायमेकं चिन्तितवान् ।तदनुसारेण एकस्मिन् दिने तस्य सर्वं धनम् अपहृतवान् । यदा धान्यानि क्रेतुं श्रीमान् धनपेटिकाम् उद्घाटितवान् तदा रिक्तां तां दृष्ट्वा चकित: बभू्व। क्षणात् दु:खितोपि अभवत् । सेवकान् आदिदेश - सङ्ग्रहागारे धान्यराशि: वर्तते किल , तदानीय जनानां कृते भक्ष्याणि सज्जीक्रियताम् इति। तै: झटिति तत्र गत्वा स्वामिन: आदेशम् अनुसर्तुं पूर्णं धान्यागारं शोधितम् । परं तत्रापि अणुरपि न लब्ध: । चिन्तित: स: स्वामी सेवकान् आदिदेश ' गृहे किं वर्तते तदेव आनयन्तु, अहं कथंचित् धान्यानि सम्पादयिष्यामि इति। तत: एक: कर्तनोपयोगी शस्त्रीं ( ಕತ್ತಿ)तथा यवसबन्धनरज्जुं ( ಬೈ ಹುಲ್ಲು ಕಟ್ಟುವ ಹಗ್ಗ) दत्तवान् धनिकाय । तदेव उपयुज्य धनिकेन क्षेत्रे किञ्चित् व्रीहीन् सम्पादितवान् । तै: तण्डुलै: यवागूं सर्वेभ्य: परिवेषितवान् । तद्दिने तस्य परिवार: बुभुक्षया अतीव पीडित: । जना: तु तत्किमपि अविचारयन्त: इत: पूर्वं स्वादिष्टम् अन्नम् अत्र लभ्यते स्म। इत:परं एतेन दरिद्रेण तथा दानं कर्तुं न शक्यते। एष: अस्मत्समीपे एव धनं प्रार्थयेदिति तमेव बहुविधै: निन्दयित्वा तां धर्मशालां त्यक्तवन्त:। दारिद्र्येपि अदु:खित: स: तेषां भर्त्सनेन तथा परुषवचनै: अतीव दु:खित: । तदा इन्द्र: तस्य अवस्थां दृष्ट्वा करुणया स्वयमेव तस्य पुरत: प्रत्यक्षो भूत्वा एवम् उपदिष्टवान् तस्मै ' भो महादानिन्, अहमेव तव वित्तापहारक: , भवता अपात्रदानम् कृतम्, तदर्थं मया सर्वम् अपहृतम् नत्वन्यथा। अद्यप्रभृति पूर्वरीत्यैव धनिको भविष्यसि, किं तु तत्र दानकरणसमये एक:नियम: त्वया अनुसरणीय: भवति, तत्किमिति चेत् अशक्तेभ्य: तथा दिव्याङ्गेभ्य: वा रोगपीडितेभ्य: केवलं यथेच्छं दानं करणीयम्, न तु कथमपि अन्येषाम् इति। श्रीमान् तस्य वचनम् अनुसृत्य तदा प्रभृति दीनदुर्बलेभ्य: एव दानं कृत्वा ख्यातिम् अवाप।
किम् अनया कथया शिक्षणम् इति चेत् गीता वाक्यानुसारं दानं करणीयम्- यस्मै अवश्यकता वर्तते केवलं तस्मै । तत्रापि देश- काल- पात्रं विचार्य दातव्यम् नत्वन्यथा। तदा तद्दानं सात्विकं भवति। तेन परमात्मा अपि तुष्यति।
अनुवादक: - श्रीनिधि अभ्यङ्कर:
उपकर्ता- चिदम्बर:
http://shreenidhiabhyankar.blogspot.in/
ಕಾಮೆಂಟ್ಗಳು
ಕಾಮೆಂಟ್ ಪೋಸ್ಟ್ ಮಾಡಿ