ಅನುವಾದಿತ ಕಥೆ ೧೫

अनूदित कथावलि: -१५

'कश्चिद्यतति सिद्धये' 

ग्रामस्य मार्ग: स: | जनसम्मर्द: तादृश: नासीत् । तत्र गच्छन् एक: श्रान्त: वृक्षस्याध: किञ्चित् कालं सुप्तवान् । मनसि एवं विचारयामास  ' कीदृश: भाग्यहीनोsहं, दैवं कीदृशं सहायमपि न करोति मम, हे विधे, कुत: मम एतावन्ति कष्टानि ' इत्यादि। अनुक्षणं निद्रालिङ्गितो बभूव । बहुकालात् जागृतो भूत्वा उपरिस्थां वृक्षशाखां दृष्टवान् , तत्र आम्रफलपूर्णा: शाखा: । रसना अविलम्बेन आशां उत्पादितवती। किं तु अलसेन  तेन एवं चिन्तितम्- एकस्मिन्नेव वृक्षे बहव: पक्वा: आम्रा: वर्तन्ते । पूर्वपुण्यमस्ति  चेत् केचन आम्रा: लभेयु: । तानि खादित्वा आनन्दम् आप्नोमि ' इति । 

अचिरादेव केचन युवान: तत्र आगत्य आम्रवृक्षं दृष्ट्वा खादितुं उत्सुका:। तेषु द्वित्रय: वृक्षावरोहणं कृतवन्त: । अन्ये तै: पातितान् स्यूते स्थापितवन्त:। तैरेक: एतं निद्रितं प्रति उच्चै: उक्तवान् - भो ज्येष्ठ, फलानि पक्वानि मधुराणि सन्ति, अवश्यं चेत् यथेष्टं स्वीकुरु ' इति। तदापि तेन चिन्तितम् -' मम कृते इति विधिना निश्चितं फलं निश्चयेन मया प्राप्स्यते। कुत: उत्थाय गच्छामि ' इति। 

तत: ते युवान: बहूनि फलानि स्यूतेषु सम्पूर्य गतवन्त:।  कतिपयकालानन्तरं अपरे पथिका: आगत्य पतितान् आम्रान् उपनीतवन्त:।  तत्समये पुन: एनमाहूतवन्त: । पुनरपि तेन पूर्वरीत्यैव चिन्तनं कृतम् । तत: तेsपि आम्रान् भक्षयित्वा गता: । अन्ते एतेन वृक्ष: दृष्ट: ,किमस्ति तत्र पत्राणि शाखानि केवलम् । पुन:  दैवं तर्जितुमारब्धवान् 'अहो मम दौर्भाग्यम् , किं पापम् अहं कृतवान्, सर्वेषां पूर्वं अत्र आगतवानहम् , किंतु मया  एकं फलमपि न लब्धं , दैवं मम किमपि साहाय्यं न करोति ,' इति। 

लोके बहव: एवमेव चिन्तनं कुर्वन्ति। पुरत: दृश्यमाणं फलं त्यक्त्वा अदृष्टं वा पुण्यफलं वा वाञ्छन्ति। समीपे विधिना निविष्टमपि वस्तु परित्यज्य अयत्नं उपविशन्ति। जगति अयत्नसाध्यं किमपि नास्ति। अस्माकं जनिरपि पितृणां यत्नेन एव सिध्यति। यदा अवकाश: लभ्यते  तदा अन्ध: इव तूष्णीं स्थीयते चेत् न किमपि लभ्यते । तत्र दैवम् कथं कारणं भवति अस्माकं दोषस्य कृते, कथमपि न । तदर्थमेव वृद्धानां वचनं एवमस्ति- यत्न: सर्वदा क्रियताम्, सोत्साहानां नराणां कृते किं असाध्यमस्ति जगति?  न किम् । फलाफलं दैवेनैव निर्णीयते। अत: धर्मं ज्ञात्वा उत्तमकार्येषु सदा यत्न: करणीय: । तेन जना: अपि तुष्यन्ति । तत्र आम्रवृक्ष: एव उत्तमम् उदाहरणम् । 
 

अनुवादक: - श्रीनिधि अभ्यङ्कर:
उपकर्ता-  चिदम्बर:

http://shreenidhiabhyankar.blogspot.in/

ಕಾಮೆಂಟ್‌ಗಳು

ಈ ಬ್ಲಾಗ್‌ನ ಜನಪ್ರಿಯ ಪೋಸ್ಟ್‌ಗಳು

ಕಿರಾತಾರ್ಜುನೀಯ ಪರಿಚಯ

ಪ್ರತಿಮಾ ನಾಟಕ

ಸಂಸ್ಕೃತ ವಿಶೇಷ ಶ್ಲೋಕಗಳು ೩