ಕಥಾ ಅನುವಾದ ೬

अनुवादित कथावली-- ६

                       *परचिन्तनम्*

मोहन: पत्रालये पत्रवाह कार्यं करोति स्म । तस्मिन् समये पत्रवाह: सर्वत्र पादाभ्याम्  एव गत्वा पत्रवितरणं कुर्वन्नासीत् ।  वाहनसौकर्यम् अद्यतन रीत्या तत्काले नासीत् । जना: अपि सर्वान् विषयान् पत्रे विलिख्य पत्रद्वारा व्यवहरन्ति स्म। जङ्गमदूरवाणी तदा न उपयुज्यते स्म।

एकस्मिन् दिने मोहनस्य कार्यालयं प्रति एकं पत्रम् आगतम् । तत्र लिखितं पत्रसङ्केतं दृष्ट्वा मोहन: किञ्चित् चिन्तातुर: अभूत्।  तत् पत्रं दातुं ग्रामात् बहुदूरं गमनं आवश्यकम् आसीत् । मोहनस्तु तद्दिने यावछ्चीघ्रं सर्वाणि कार्याणि समाप्य तत्पत्रं  स्वीकृत्य क्षेत्रस्य पार्श्वस्थ मार्गमाश्रित्य गच्छति स्म। सूर्यस्य ताप: प्रतिक्षणं वर्धते स्म। अस्ताचलं गन्तुं उद्युक्त: रवि: उपर्युपरि गच्छन् जनान् बाधते स्म । तथापि यथाकथञ्चित् कष्टेन मोहन: तत्स्थलं गतवान् । 

यदा मोहन: गृहात् बहि: स्थित: तदा तस्य शरीरात् स्वेदबिन्दव: प्रवाहरूपेण पतन्ति स्म। अन्ते स: द्वारसमीपस्थां ध्वनिपेटिकां स्पृष्ट्वा रणितवान् तदा एका बाला 'क: कोsत्र, किं कार्यम् ' इति पृष्टवती। 

तच्छ्रुत्वा असहनया ' अहं पत्रवाह: अस्मि, द्वारम् उद्घाटयतु शीघ्रम् ' इत्युक्तवान् । सा तु तदाकर्ण्य ' द्वारस्य अधस्तात् तत् प्रेषयतु ' इति उक्तवती। इदानीं कुपित: स: 'एतत् दातुं हस्ताङ्कनस्य आवश्यकता अस्ति , बहिरागत्य हस्ताङ्कनं करोतु ' इति उच्चस्वरेण आदिष्टवान् । एतावत् दूरात् तापेन दह्यमानोsपि आगतोस्मि। नृशंसा एषा, चषकमेकम् उदकमपि मत्कृते न  पृष्टवती  इति मनसि भावितवान् स: । निमेषा: एकैकतया पुरत: गता: अपि सा न बहिरागता । तस्य असहनाया: स्तर: क्षणात् क्षणम् अधिको भवति स्म। दशनिमेषेभ्य: पश्चात्  सा निधानेन द्वारम् उद्घाटितवती। 

यदा मोहन: तां दृष्टवान् तदा किंकर्तव्यताविमूढ: सञ्जात: । कुत इति चेत् तस्या: पादद्वयमपि नासीत् ।  तया उक्तम् 'क्षम्यतां महोदय, किञ्चिद्विलम्बोsभूत् ' इति हस्तं प्रसारितवती। मोहनस्य मुखात् किमपि वाक्यं न आगतम् । पुनर्गमनकाले तेन  पश्चात्तापेन चिन्तितं '  हन्त , कीदृश: दयारहितोsहम्, ईदृशीं बालां परुषवचनै: भर्त्सितवान्, मम वचसा कीदृशीं बाधां सा अनुभूतवती? 'इत्यादि। 

कालो गत:। अचिरादेव तदेव पत्रादेशे पुनरेकं पत्रं आगतम् । इदानीं स्वस्थमनसा मोहन: प्रस्थित: तत् पत्रं दातुम्। आतप:, अत्युष्णता, कण्टकादिकं किमपि गमनमार्गे तेन न चिन्तितम् आसीत्। तस्य मनसि बालाया: चित्रं विलेख्य निविष्टम् आसीत् । द्वारं  निधानेन शब्दापयित्वा 'वत्से , पत्रमेकम् आगतं भवत्कृते, हस्ताङ्कनं अद्य नापेक्षितम्, द्वारस्य अधस्तादेव प्रेषयामि, स्वीकुरु' इत्युक्तवान्। 

अचिरादेव तया कथितमासीत् ' महोदय, निमिषमेकं पालय, द्वारम्  उद्घाट्य आगतास्मि ' इति। तत: बहिरागत्य सा उक्तवती 'अन्त:आगच्छ, तपन: वह्निकिरणानेव प्रेषयन् अस्ति, पानीयं स्वीकरोतु 'इत्युक्त्वा मधुरखाद्यानि तथा पानीयं दत्तवती।' अत्र आगन्तुं भवते पत्रस्य अवश्यकता नास्ति। यदा कदाचित् एवमेव आगच्छतु , सम्भाषयाव:' इत्यपि अवोचत् सा। एवं तयो: मध्ये मैत्री सञ्जाता । 

तत: दीपावली पर्वकाल: आगत:। पत्रवाहस्तु पर्वकालीन शुभाशंसनं कथितुं मधुरभक्ष्याणां पेटिकां गृहीत्वा तस्या: गृहं गत:। तस्या: तथा परिवारेण साकं वार्तालापं कृत्वा तैर्दत्तं भक्ष्यादिकं स्वीकृत्य यदा गन्तुमुद्युक्त: तदा तया अपादया मोहनस्य कृते स्यूतमेकं उपायनरूपेण दत्तं , तथा  एतद्वाक्यान्यपि उक्तानि ' स्यूतस्य उद्घाटनम् इदानीमेव मा करोतु , गृहं गत्वा पश्यतु किमिति 'इति। 

यदा मोहन: गृहं गत: तदा सूर्य: अस्तङ्गत: आसीत् । हस्तपादादि प्रक्षाल्य बालया दत्ते स्यूते किमस्ति इति कुतूहलेन यदा उद्घाटितवान्  तदा तद्वस्तु दृष्ट्वा तस्य नेत्रयो: संततम् अश्रुधारा आगता। सन्तोषेन तस्य मन: बालाया: विषये कृतज्ञतापूर्णं बभूव। तस्मिन्  स्यूते द्वे पादरक्षे आस्ताम् । बहिर्गमन काले पादरक्षा शून्येषु मोहनस्य पादेषु अश्मादीनां निरन्तरं संघर्षात् तत्र तत्र  छेद: तथा चर्म अतिकठिणीभूतं आसीत्। इत: पूर्वं य: कोपि तद्विषयं न चिन्तितवान्, स्वयं मोहनोsपि। इदानीं पुन: या अपादा कदापि गन्तुम् अशक्या मुग्धा बालिका तेन अनुभूयमानां वेदनां ज्ञात्वा तस्मै पादरक्षां दत्तवती। मोहनस्य तु बालाया: विषये तदारभ्य अतीव गौरवमपि उत्पन्नम् ।

अस्या: कथाया: नीति: का इत्युक्ते --अस्माभि: सदा अस्माकं का समस्या? , तस्या: क: परिहार:?, तत्र किं कारणम्? इत्यादि केवलं विचार्यते। यदा परेषां का बाधा वर्तते ?क: परिहार: तत्र कर्तुं शक्य:?  इति चिन्त्यते तदा जीवने अतिशयं  शान्तिं- सुखं -प्रमोदं च अनुभूय, अस्माकं सर्वं दु:खमपि  विस्मराम:। 

सन्तोषं जनयेत् प्राज्ञ: तदेव ईश्वरपूजनम् इति आर्योक्ति: तदेव भणति खलु।

http://shreenidhiabhyankar.blogspot.in/

ಕಾಮೆಂಟ್‌ಗಳು

ಈ ಬ್ಲಾಗ್‌ನ ಜನಪ್ರಿಯ ಪೋಸ್ಟ್‌ಗಳು

ಕಿರಾತಾರ್ಜುನೀಯ ಪರಿಚಯ

ಪ್ರತಿಮಾ ನಾಟಕ

ಸಂಸ್ಕೃತ ವಿಶೇಷ ಶ್ಲೋಕಗಳು ೩