ಕಥಾ ೭

अनूदित कथावलि:--७

           ज्ञानादिना किं प्रयोजनम्

एकस्मिन् ग्रामे  एकदा वृष्टे: अभाव: अभवत् । जना:सर्वे जलाभावेन चिन्तातुरा: बभूवु:। तत्र केचन वृद्धा: सर्वान् एकीकृत्य एवम् उक्तवन्त: 'वयम्  अस्माकं ग्रामदेवताया: मूर्ते: शोभायात्रां कृत्वा पूजयाम:, तेन तुष्टा सा वृष्टिम् अनुगृह्णीयात्' इति । 

सर्वै: एष:उपाय: अङ्गीकृत:। तत: तै: चिन्तितं यत् 'अस्माकं ग्रामे शोभायात्रार्थम्  अश्व:एव नास्ति, इदानीं किं कुर्म:'इति। तदा केचिदुक्तवन्त:'मा चिन्तयन्तु भवन्त:, अश्वाभावे का हानि:, गर्दभमेव अश्वसदृशम्  अलङ्कुर्म:'  इति। अन्ते ते तथैव कृतवन्त:। तत: यात्रा आरब्धा । 

शोभायात्रा बहु भव्यतया प्रचलन्ती आसीत् । जना: केचित् देवी जयतु जयतु इति जयघोषं कुर्वन्त:,अपरे नामसङ्कीर्तनादिकं कुर्वन्त:,अन्ये केचन स्फोटकान् विस्फोटयन्, काचन स्त्रिय: नृत्यन्त्य: आसन् । एतादृशवैभवं दृष्ट्वा गर्दभ:चिन्तितवान् - अहो मम रूपम् , अहो मम सत्वम्, अहो मम बलम् 'इत्यादि। अचिरात् स: गर्दभ: मदेन  एवं रीत्या अपि चिन्तितवान्-'मम पृष्ठवंशे देव्या: मूर्ति: निविष्टा, तन्मूर्ते: कृते कुत: सर्वै: गौरवं प्रदर्श्यते , भारवाहक: अहमस्मि, मां त्यक्त्वा किमर्थम्  एवं कुर्वन्त्येते ' इति विचार्य पृष्ठदेशं कम्पयित्वा मूर्तिं पातितवान् । 

यावत्पर्यन्तं मूर्ति: तस्योपरि निविष्टा तावत्पर्यन्तं गर्दभाय अतीव गौरवमपि जना: दत्तवन्त:। यदा मूर्ते:पतनम् अभूत् तदा क्रुद्धा: सर्वे गर्दभं यथाकामं दण्डयित्वा ग्रामात् बहि:प्रेषितवन्त:। एतेन गर्दभ:बहु दु:खित: अभूत् । 

अस्या: कथाया: नीति: का इत्युक्ते -मानवानाम्  अपि एषा एव कथा अनुमन्यते। यदा वयं ज्ञानं , सद्गुणादिकं अर्जयाम:  तदा सर्वेषां आदरं प्राप्नुम:। यदा ज्ञानहीना:, गुणहीना: भवेम तदा गर्दभसदृशम्  अनादरं प्राप्नुम:। अत: सर्वदा ज्ञानार्जनं कार्यम्। 

गीतायां 'ज्ञानवान्मां प्रपद्यते ' 'ज्ञानी त्वात्मैव मे मत:' इति साक्षात् भगवानेव ज्ञानस्य महत्वं प्रकटितवान् । 

अनुवाद: श्रीनिधि अभ्यङ्कर:
http://shreenidhiabhyankar.blogspot.in/

http://shreenidhiabhyankar.blogspot.in/

ಕಾಮೆಂಟ್‌ಗಳು

ಈ ಬ್ಲಾಗ್‌ನ ಜನಪ್ರಿಯ ಪೋಸ್ಟ್‌ಗಳು

ಕಿರಾತಾರ್ಜುನೀಯ ಪರಿಚಯ

ಪ್ರತಿಮಾ ನಾಟಕ

ಸಂಸ್ಕೃತ ವಿಶೇಷ ಶ್ಲೋಕಗಳು ೩