ಅನುವಾದಿತ ಕಥಾ ೫
अनुवादित कथा सरणि: -५
पुरा एकस्मिन् गुरुकुले बोपदेवो नामा एक: छात्र: पठति स्म । स: मन्दबुद्धि: आसीत् । गुरुणा बहुवारम् उक्तेपि विषया: तस्य मनसि न तिष्ठन्ति स्म । अत: अन्ये सहपाठिन: 'मन्द: मन्द:' इति तं वारंवारं परिहसन्ति स्म। गुरुणा एवं मा कुर्वन्तु इति तान् उक्तेपि गुरुं अभित: विहाय अन्यस्मिन्समये एवमेव कुर्वन्त: आसन्।
एतेन दु:खित: स: यत्र कुत्रापि प्राणत्यागं करोमीति विचार्य गुरुकुलं त्यक्त्वा ग्राममेकं उपगत: । तत्र बृहत् कूपमेकं दृष्ट्वा एतदेव मम प्राणत्यागाय समीचीनं स्थानम् इति विचार्य समीपं गतवान् । तत्समये तत्र नाना स्त्रिय: कूपात् जलं उद्धरिष्यन्त्य: आसन् । तासु एका महिला एतं रुदन्तं बालकं पश्यन्ती समीपमागत्य 'त्वं कस्मात् आगत:, किं तव दु:खकारणं, कुत्र गन्तुमिच्छसि, किं तव नाम ? ' इत्यादि पृष्टवती। तस्या: प्रीतिपूर्वक वचनानि आकर्ण्य स: सर्वं तस्यै न्यवेदयत् । सा तं समाश्वास्य एवं उक्तवती- भो बाल, अत्र पश्य, प्रत्यहं अत्र अनेका: महिला: आगत्य कूपात् जलमुद्धृत्य पूर्णं घटं स्थापयन्ति। एवं कालो गत:। सततं घटस्थापनेन अत्रस्थे अश्मनि गर्तं जातम्। वस्तुत: अश्मा तु बहु कठिण: , तथापि एवं भूतोsत्र। तथा च पाषाणे एव एतादृश परिवर्तनं दृष्टुं शक्यते चेत् किं तव बुद्धौ न भवति। अहर्निशि यावच्छक्यं भवति तावत् अध्ययनं कुरु। एतादृश नीच विचाराणि कदापि चित्ते मा कुरु। एवं सा स्त्री तस्य मनसि बहुधा विश्वासं पूरयितवती।
तत: भूय: गुरुकुलं गत: स: बोपदेव: श्रद्धया शास्त्राण्यनेकानि अधीत्य व्याकरण ग्रन्थानां कृते अध्ययनसौकर्याय भाष्यमपि रचितवान् ।
प्रत्येक: जीव: अपि बुद्ध्या, स्वभावेन, शरीरेण वा भिन्न: इति मध्वाचार्याणामुक्ति: । भगवत्सृष्टौ एकरूपता न कुत्रापि। केचन एकपाठिन:, अपरे बहुपाठिन: भवन्ति। दृढचित्तेन बहुयत्ने कृते कमपि विषयं अवगन्तुं शक्यते। मन: स्थैर्यं तत्र कारणं भवति।
अनुवाद: *श्रीनिधि अभ्यंकर्*
http://shreenidhiabhyankar.blogspot.in/
ಕಾಮೆಂಟ್ಗಳು
ಕಾಮೆಂಟ್ ಪೋಸ್ಟ್ ಮಾಡಿ