ಸಂಸ್ಕೃತ ವ್ಯಾಕರಣ ೨
📖संस्कृत व्याकरणं किं सुलभं वा ????? चिन्तनम् =२📖
अधि धातु: इञ् सहित: --अध्ययनम् अर्थ:
द्वितीय गणस्थ:
अनिट्
सकर्मक:
अधीते-- छात्र: पाठम् अधीते । बहव: अध्ययनं करोति इति प्रयोगं कुर्वन्ति । तदपेक्षया एतत् सुलभम् ।
अध्येष्यते-- मोदि: संस्कृतम् आगामि वर्षे अध्येष्यते।
अध्यापयति-- देवभाषा संस्कृतं लेडी गागायै अपि काचित् सूक्ती: अध्यापयति । ( साधु: वा इति सन्देहो विद्यते) अत्र *बुधयुध.....* इति सूत्रानुसारं ण्यन्तेभ्य: परस्मैपदित्वं भवति।
अधीयते--- प्रियव्रतेन अहर्निशि शास्त्रम् अधीयते।
अध्येतव्यम्/ अध्ययनीयम्-- घनपाठिभि: आधुनिककाले तन्त्रज्ञानमपि अध्येतव्यम् / अध्ययनीयम् ।
अधीत:---मया राम शब्द: बहुधा अधीत:।
अधीतवान्-- अक्षयकुमार: मन्त्रान् अपि अधीतवान् ।
अधीयान: --- विद्वान् के.एस्. नारायणाचार्य: सदा अधीयान: / अधीयन् अस्ति।
अध्येतुम्-- किमपि अध्येतुं मनोनिग्रह: आवश्यक:।
नित्यम् अधिपूर्वकत्वात् क्त्वा प्रत्ययान्तं रूपं न विद्यते।
अधीत्य-- शास्त्राणि अधीत्य विनयो जायते किम्?
अध्ययनम् --- पर्वदिनेषु अध्ययनम् निषिद्धम् ।
सङ्ग्रह: ; श्रीनिधि अभ्यङ्कर:
मूलम् -- कन्नड सम्स्कृत क्रियापदकोश: ।
प्रमादा: सन्ति चेत् कृपया कथ्यताम्
http://shreenidhiabhyankar.blogspot.in/
ಕಾಮೆಂಟ್ಗಳು
ಕಾಮೆಂಟ್ ಪೋಸ್ಟ್ ಮಾಡಿ