ಸಂಸ್ಕೃತ ವ್ಯಾಕರಣ ೪
📖संस्कृत व्याकरणं किं सुलभं वा ????? चिन्तनम् =४📖
आप्लृ धातु:।
व्याप्ति: वा प्राप्ति: अर्थ: ।
पञ्चमगणस्थ: ।
परस्मैपदि
अनिट्
सकर्मक
आप्नोति---स: एतन्मासे वेतनं निधानं आप्नोति।
आप्स्यति---- धनार्थी परिश्रमात् बहुधनं चिरात् आप्स्यति ।
आपयति--दैवेच्छया सुखम् जन: आपयति ।
आप्यते--- सत्कर्मण: फलं निश्चितं कर्मकारेण आप्यते।
आप्तव्यम्---- अशान्तमनसा जनेन चिकित्सा आप्तव्या।
आपनीयम् --- देवे तथा गुरौ सदा भक्ति: आपनीया।
आप्त:- भगवन्तं विहाय को नाम आप्त: भक्तस्य!
आप्तवान् -- वाल्मीकि: तपसा ज्ञानं आप्तवान्।
आप्नुवन्--- धीवर: जाले मत्स्यान् आप्नुवन् अस्ति।
आप्तुम् ---ज्ञानम् आप्तुं य: नेच्छति स: कथं मानव:!
आप्त्वा--- अन्यदेशे आस्तरणं आप्त्वा पथिक: सुखं शेते ।
प्राप्य--- पुण्यलोकान् प्राप्य शाश्वतीसमा: उषित्वा योगभ्रष्ट: शुचीनां गेहे जायते।
प्रापणम्---यशस: प्रापणम् सर्वै:इष्यते किंतु कार्यं न तदनुसारितया क्रियते ।
अस्मिन् धातो: रूपाणां प्रयोगे मम मनसि बहव: संशया: वर्तन्ते। यदि असमीचीन: प्रयोग: तर्हि कथ्यताम् अविलम्बेन।
सङ्ग्रह: ; श्रीनिधि अभ्यङ्कर:
मूलम् -- कन्नड संस्कृत क्रियापदकोश: ।
प्रमादा: सन्ति चेत् कृपया कथ्यताम्
http://shreenidhiabhyankar.blogspot.in/
ಕಾಮೆಂಟ್ಗಳು
ಕಾಮೆಂಟ್ ಪೋಸ್ಟ್ ಮಾಡಿ