ವ್ಯಾಕರಣ ೬

📖संस्कृत व्याकरणं किं सुलभं वा ????? चिन्तनम् =५📖

ऊह धातु:
वितर्क:  अर्थ:
प्रथमगणस्थ:
सेट् 
आत्मनेपदी
सकर्मक:

१. ऊहते--- कृषिक: वृष्टि: कदा भवेदिति सम्यक् ऊहते ।

२. ऊहिष्यते--- आगामि वर्षे राममंदिरस्य शङ्कुस्थापनादि कार्याणि मया ऊहिष्यते।

३.ऊहयति/ते---गुरु: सङ्केतान् दत्वा विद्यार्थिभि: उत्तरम् ऊहयते

४.ऊह्यते--- नरस्य वृत्तान्तम् इदमित्थम्  इति केन ऊह्यते?।

५. ऊहितव्यम् --- राज्ञा सर्वदा शत्रुदोषा: ऊहितव्या:।

६. ऊहित:--- अपराधस्थले आरक्षकेन घातक: ऊहित: ।

७. ऊहितवान् --- अल्पज्ञानी विद्वत्सभायां किं तस्य स्थानम् इति ऊहितवान् ।

८. ऊहमान: ---  उपनिर्वाचनेषु किं भवेदिति जना: ऊहमाना: सन्ति।

९. ऊहितुम्- -  स्पर्धासु जेतारम् ऊहितुं  चिरानुभव: सहायो भवति ।

१०. ऊहित्वा -- शोधछात्र: न्याय्यम् ऊहित्वा टिप्पणीं करोति। 

११. समुह्य-----वृत्तान्तलेखक: अमात्यं समुह्य  पत्रिकायां प्रकाशितवान् । ( उपसर्गात् ह्रस्व ऊहते: इति सूत्रानुसारि रूपम्)

१२. ऊहनम् -- राजकीयक्षेत्रे कस्मिन् क्षणे केन साकं कस्य  मैत्री भवेदिति ऊहनम् अशक्यम् ।
 

 सङ्ग्रहलेख:: - श्रीनिधि अभ्यङ्कर: 

मूलम् -- कन्नड संस्कृत क्रियापदकोश: । 

प्रमादा: सन्ति चेत् कृपया कथ्यताम् 

http://shreenidhiabhyankar.blogspot.in/

ಕಾಮೆಂಟ್‌ಗಳು

ಈ ಬ್ಲಾಗ್‌ನ ಜನಪ್ರಿಯ ಪೋಸ್ಟ್‌ಗಳು

ಕಿರಾತಾರ್ಜುನೀಯ ಪರಿಚಯ

ಪ್ರತಿಮಾ ನಾಟಕ

ಸಂಸ್ಕೃತ ವಿಶೇಷ ಶ್ಲೋಕಗಳು ೩