ಕಥಾ ೯
अनूदित कथावलि:---९
कृते पुन: कुर्यात् अकृतेपि कदाचन
विपणिमार्गे प्रतिदिनमिव सा वृद्धा नारङ्गं विक्रयन्ती आसीत्। तस्या: आपणम् एकं जीर्णम् उटजम्। किंतु सा विना दैन्येन स्वतन्त्रं जीवनं यापयन्ती आसीत् । तद्दिने एक: युवा नारङ्गं क्रेतुं वृद्धाया: उटजम् आगतवान् । तेन पृष्टम् ' अम्ब, एक प्रस्थ नारङ्गाणां कृते किं मौल्यम् ' इति। पञ्चाशत् रूप्यकाणि इत्युक्त्वा सा प्रस्थपरिमितं नारङ्गं दत्तवती।
रूप्यकाणि दत्वा यदा स: गन्तुमुद्युक्त: तदा झटिति एक: निर्धन: इव दृश्यमान: वृद्ध: नारङ्गं क्रेतुं तत्रैव आगत: । तेनापि प्रस्थपरिमितं नारङ्गाणां कृते किं मौल्यम् इति पृष्टम् । तया दश रूप्यकाणि इति उत्तरं दत्तम् । तद् दृष्ट्वा अमर्षणेन तेन यूना समीपमागत्य नीचस्वरेण पृष्टम् ' अम्ब, मदर्थं पञ्चाशत्, तस्य कृते केवलं दश, कथम् एवं करोषि ,न्याय्यं वा इदम्' इति। तदाकर्ण्य तया भणितम् ' अरे वत्स , भवान् क्रेतुं समर्थ:, किंतु एष: पलित: बन्धुविहीन:, क्रेतुम् अशक्तोपि विनामूल्यं खादितुं नेच्छति, आत्माभिमानी च, अत: अहं तत्कृते हीनमूल्यान् नारङ्गान् ददामि, मम तु एतेन बहु धनं नष्टं न भवति, यदि एतादृश उपकारो मया क्रियते तदा मनसि तृप्ति: तथा एतद्रूपेण समाजे जनसेवा किञ्चित् भवतीति भावना अपि उत्पद्यते । यदा मया एवं क्रियते तद्दिने मम व्यापारोपि वर्धते , मन्ये एतत्कार्यं देवस्यापि प्रीतिजनकं भवति' इति ।
तस्या: साधुवादेन नितरां तुष्ट: स: तदेव चिन्तयन् गृहं गत:।
अथापि कथा किं समाप्ता न, सन्ततम् अनुवर्तते । स: पलित: तया नारङ्गान् स्वीकृत्य धनं दत्वा एकम् नारङ्गं उद्घाट्य एकं मौक्तिकं खादयित्वा कटु वर्तते इति तत्फलं पूर्णं तस्यै दत्तवान् । सा तु तम् आस्वाद्य मधुरमेव वर्तते इति यदा ब्रुवन्ती आसीत् तदा स: झटिति निर्गत:। यदा यदा तेन वृद्धेन व्यापार: क्रियते स्म तदा तदा एवमेव क्रियते स्म । एतत् दृष्ट्वा समीपस्थ: अन्य: श्रेष्ठी एकदा तस्मै अपृच्छत् ' भो तात, किमर्थं प्रतिवारं तस्यै फलं यच्छसि? तेन तव नष्टं भवति किल! इति। तदा स: उक्तवान् ' फले कटुता नास्तीति अहमपि जानामि, परंतु मया दत्तं विना कदापि तत्फलं सा न खादति , सा एतद्रीत्या यदाकदाचित् फलं खादतु इति अहम् एवं करोमि, तेनाहं नितरां तुष्टो भवामि ' इति।
तत: स: श्रेष्ठी तस्या: वृद्धाया: साकं तदेव प्रश्नम् अपृच्छत्। तदा तयोक्तम् ' तद्विषयम् अहमपि जाने, यदा तेन मदर्थं फलं दास्यते तदा मयापि तस्य स्यूते प्रस्थपरिमितात् अधिकम् एकं फलं स्थाप्यते । अत: तस्यापि न नष्ट: भवति ' इति ।
'परस्परं भावयन्त: श्रेय: परमवाप्स्यथ' इति कृष्णस्योक्ति: । यदा वयं परस्य उपकारं कुर्म: यदा निश्चितेन अन्य: अस्मत्कृते उपकुर्यात् । एवमेव लोके व्यवस्था सुकरा दृश्यते । दानबुद्धि: तथा पात्रापात्रविवेचनं तत्र सदा आवश्यकम् । देवोsपि तम् अनुगृह्णाति ।
अनुवाद: ; श्रीनिधि अभ्यङ्कर:
उपकर्ता- चिदम्बर कुलकर्णि:
http://shreenidhiabhyankar.blogspot.in/
ಕಾಮೆಂಟ್ಗಳು
ಕಾಮೆಂಟ್ ಪೋಸ್ಟ್ ಮಾಡಿ