ಸಂಸ್ಕೃತ ವ್ಯಾಕರಣ ೧
संस्कृत व्याकरणं किं सुलभं वा ????? चिन्तनम् =१
अद्यप्रभृति केचन धातूनां प्रयोगविषयं पश्याम: |
अङ्क पदे लक्षणे इति धातु:
दशमगणस्थ:
उभयपदी
सेट्
सकर्मक:
अङ्कनं नाम चिह्नकरणं तथा पादनिवेश: इति अर्थद्वयं विद्यते।
अङ्कयति वा अङ्कयते -- अङ्ककार:( एष: प्रयोग: साधु वा न जाने ) (tattooist ) हस्ते मयूरस्य चित्रं अङ्कयति-ते।
अङ्कयिष्यति-- स: तत् चित्रं श्व: मम कर्णोपरि अङ्कयिष्यति ।
अङ्क्यते--शिशुना गृहस्य भित्तौ नानारेखा: अङ्क्यते ।
अङ्कयितव्यम्--अस्माभि: कार्यक्षेत्रे व
सत्यविषयं अङ्कयितव्यम् ,अङ्कनीयम् ।
अङ्कित:-- चित्रकारेण पत्रे काचन रेखा अङ्किता ।
अङ्कितवान्-- लिपिकार: स्वहस्ताक्षरं अन्ते अङ्कितवान्।
अङ्कयन्ती-- सा किमपि पत्रे अङ्कयन्ती वा अङ्कयमाना वर्तते।
अङ्कयितुम् -- मम मुखे अङ्गारेण अङ्कयितुम् स: उद्युक्त: अस्ति।
अङ्कयित्वा-- बाला किमपि किमपि अङ्कयित्वा धाविता।
समङ्क्य-- एष: चित्रपटे नानारेखा: समङ्क्य तृप्तिं आप्नोति।
अङ्कनम्-- अङ्कनम् बहु कष्टकरम् ।।
सङ्ग्रह: ; श्रीनिधि अभ्यङ्कर:
मूलम् -- कन्नड सम्स्कृत क्रियापदकोश: ।
प्रमादा: सन्ति चेत् कृपया कथ्यताम्
http://shreenidhiabhyankar.blogspot.in/
ಕಾಮೆಂಟ್ಗಳು
ಕಾಮೆಂಟ್ ಪೋಸ್ಟ್ ಮಾಡಿ