ಸಂಸ್ಕೃತ ವ್ಯಾಕರಣ ೪
📖संस्कृत व्याकरणं किं सुलभं वा ????? चिन्तनम् =४📖
इष धातु:
इच्छा अर्थ:
षष्ठ गणस्थ:
सेट्
परस्मैपदि
सकर्मक:
१. इच्छति--- दरिद्र: धनं इच्छति।
२. एषिष्यति--- सोम: द्वादश्यां सुचारु भोजनं एषिष्यति।
३. एषयते---राम: कृष्णेन ऋणस्य धनं अविलम्बेन एषयते।( अत्र संशय: वर्तते। )
४.इष्यते--- एतेन अधिकाधिकं अन्नं इष्यते।
५. एष्टव्यम्/एषियव्यम् --- छात्रेण ज्ञानं प्रतिक्षणं एष्टव्यम्।
६. एषणीय:--- भगवदनुग्रह: सर्वै: एषणीय: ।
७. इष्टम् --- बालकेन ध्रुवेन परमपदं इष्टम् ।
८. इष्टवान् --- अहं तां अधिकतरं इष्टवान्।
९. इच्छन्ती- - बाला पुष्पं इच्छन्ती भ्रमरं निराकरोति।
१०. एष्टुम्--- यश: एष्टुम् परिश्रम: आवश्यक:।
११. एषित्वा/इष्ट्वा --- सा मां एषित्वा अन्यं परिणीतवती। ( इच्छति, इष्यते, इष्ट्वा इति त्रिस्थलेषु केवलम् इकार:। अन्यत्र असाधु भवति।)
१२. प्रेष्य--- दमयन्तीं राजगृहं प्रेष्य नल: वनं प्रविष्ट:।
१३. जीवनस्य एषणं न त्याज्यम्।
सङ्ग्रह: ; श्रीनिधि अभ्यङ्कर:
मूलम् -- कन्नड संस्कृत क्रियापदकोश: ।
प्रमादा: सन्ति चेत् कृपया कथ्यताम्
http://shreenidhiabhyankar.blogspot.in/
ಕಾಮೆಂಟ್ಗಳು
ಕಾಮೆಂಟ್ ಪೋಸ್ಟ್ ಮಾಡಿ