कथा10
अनूदितकथावलि: =१०
मनस: नियन्त्रणं कुत:!
रवि: आकाशे स्वकर्म कर्तुं सिद्धतां कुर्वन् आसीत्। अरुण: तत्पूर्वम् उत्थाय रथं सज्जीकरोति स्म। हेमन्तकाल: स:। सर्वत्र प्रातः तुषारवृष्टि: दृश्यते स्म ।
तत्र एक: सम्प्रदायानुसारी धनिककुटुम्ब: आसीत् । तत्रैका सुन्दरी तरुणी। सा तत्र प्रत्यहं करणीयेषु कार्येषु निमग्ना आसीत्। गृहात् बहि: एका वाणी श्रुता तया ' भवति भिक्षां देहि' इति।
आतपागमनात् पूर्वमेव क एष आगत: भिक्षार्थम् इति विचार्य सेवका: तया आदिष्टा: ' याचकाय धान्यादिकं दीयताम् ' इति । तत: कौतुकात् वातायनेन स्व शिर: किञ्चिदुन्नमय्य बहि: दृष्टिं प्रसारितवती सा कीदृश: याचक: स्यादिति। तत्र तया दृष्ट: कृशकाय:, चिरात् अस्नात:, परं नेत्राभ्यां केवलं कान्तिम् उत्पादयन् इव ब्रह्मवर्चस्वी एक: योगी। तस्य तेज:पूर्णे लोचने सततं ईक्षमाणा सा तेन आकृष्टा बभूव। 'मम कर्तव्यं किम्, 'परम् अहं किं कुर्वन्ती अस्मि' इत्यादि सर्वं विस्मृत्य दीपेन पतङ्ग इव तेन योगिना मदनपीडिता सा तद्विषयं चिन्तयित्वा स्व मनोनिग्रहं दूरीकृतवती।
परं तस्या: मनोभीष्टम् अजानन् स: योगी भिक्षार्थम् अविलम्बेन अन्यं गृहं गतवान्। किंत्वत्र तस्या: चेत: तापसस्य रूपमेव अचिन्तयत् पूर्णं दिनम्। प्रतिक्षणं तमेव चिन्तयन्ती सा सर्वाणि कार्याणि विस्मृत्य कामेन उन्मत्ता बभूव। स्वस्या: कामनां तस्मै न्यवेदयितुम् उत्सुका सा परेद्यु : स: कदा आगच्छेत् अहं कदा तं पश्येयम् इति प्रतिक्षणं तमेव प्रतीक्षमाणा आसीत् ।
अचिरादेव स्वस्या: यौवनं निन्दन्ती सा ' किं कुर्वन्ती अस्मि , एतादृश कुटुम्बे जाताहं कथमेवं चिन्तयामि, मम विवेक: कुत्र नष्ट: ' इत्यादि विचार्य यदि स: आगच्छेत् तदा अहं तं न द्रक्ष्यामि इति पश्चात्तापेन चिन्तितवती सा मुग्धा। कामं दूरे स्थापयामि, सेवकद्वारा भिक्षां दास्यामि, कथङ्कारमपि न तं पश्यामि इति मनसि प्रतिज्ञामपि कृतवती।
परेद्यु: यथाक्रमं स: योगी भिक्षार्थम् आगतवान् । तस्या: तरुण्या: मन: भूयो$पि आकर्षितं तद्विषये। पूर्वं मनसि या प्रतिज्ञा कृता सा पूर्णं विस्मृता । मनोनिग्रह: दूरे परित्यक्त:। कामातुराणां न भयं न लज्जा इति वाक्यं सत्यं कर्तुमिव योगिन: समीपमागत्य सा तस्य शोभने अक्षिणी बहुधा वर्णितवती , तथा अहं तव प्रणयिनी अस्मि, किम् आवां दम्पती भवाव इति पृष्टवती।
किंतु स: तापस: तस्या: वचांसि शृण्वन्नपि उत्तरं अदत्वा 'सौभाग्यवती भव, शुभमस्तु' इति आशी: दत्वा गतवान्।
परे$हनि आगत्य मां वृणुयात् इति चेतसि नानाविधकल्पनां कुर्वन्ती सा तं पुन: प्रतीक्षमाणा आसीत्। प्रात: सहचराभ्यां साकं तयो: बाहू अवलम्ब्य कष्टेन भिक्षार्थम् आगत: स: तापस: । 'किं किमभूत्' इति सहसा पृच्छ्यन्त्या: भामिन्या: हस्ते स्वनेत्रपटलौ स्थापयित्वा एवमुक्तवान् योगी 'अये अम्ब, एताभ्यां लोचनाभ्यामेव आकृष्टा भवती, अतः त्वदर्थं लोचने दत्ते मया स्वीकुरु ' इत्युक्त्वा तस्या: अन्त:चक्षु: उद्घाट्य गत: स:।
एषा कस्यापि नरस्य दु:खकथा न, योगिश्रेष्ठ: इति ख्यातस्य गोरखनाथमुने: गुरो: अलक् निरञ्जनस्य त्यागकथा एषा । प्रत्येकस्य मानवस्यापि मनोनिग्रहं सर्वथा आवश्यकम्। यदि मनस: नियन्त्रणं कर्तुं न शक्यते तदा जीवने किं साधितुं शक्नुम:? बहु कष्टसाध्यं तत्।
शुकनासोपदेशे एकं वाक्यम् 'यौवनं धनसम्पत्ति: प्रभुत्वम् अविवेकिता एकैकमप्यनर्थाय किमु यत्र चतुष्टयम् ' इति। यौवने, सति प्रभुत्वे , सति बहुधने भोगबुद्धि: मा भूत् । नो चेत् तदेव अनर्थं जनयेत्।
तथा च 'असंशयं मनोनिग्रहम् ' इति कृष्णवाक्यानुसारेण बहु कष्टसाध्यमपि अवश्यं मनोनिग्रह: करणीय: । तदा जीवने किमपि महत् साधयाम: ।
मूलम्- आचार्य श्रीश:
अनुवादक: - श्रीनिधि अभ्यङ्कर:
उपकर्ता- आचार्य चिदम्बर:
http://shreenidhiabhyankar.blogspot.in/
ಕಾಮೆಂಟ್ಗಳು
ಕಾಮೆಂಟ್ ಪೋಸ್ಟ್ ಮಾಡಿ