ಸಂಸ್ಕೃತ ವ್ಯಾಕರಣ ೩
📖संस्कृत व्याकरणं किं सुलभं वा ????? चिन्तनम् =३📖
असु-धातु:
क्षेपणं अर्थ:
चतुर्थं गणम्
परस्मैपदि
सेट्
सकर्मक: ।
अस्यति- उमेश: कन्दुकं वेगेन अस्यति।
असिष्यति- राम: श्व: गृहस्थं सर्वं कश्मलं असिष्यति।
आसयते/ति-- धनिकेन सेवकद्वारा प्लास्टिक् इत्यादि त्याज्यं दूरं आसयते।
अस्यते--- मया विद्यालयस्य क्रीडादिने गोलाकारं अश्म दूरं अस्यते।
असितव्यम् --- मनांसि कश्मलानि सदा दूरे असितव्यानि।
अस्त: ---शिशुना पितु: दूरवाणी भूमौ अस्ता ।
अस्तवान्--- राम: रावणस्य आशां दूरं अस्तवान् ।
अस्यन्--- स: किं भोजनं कुर्वन् अस्ति वा अस्यन् अस्ति?
असितुम्--- लड्डुकं मुखे असितुम् अपि अभ्यास: करणीय:।
असित्वा--- शक्तिं असित्वा तारकस्य शिर: छादितवान् स्कन्द:।
उप+नि+अस्य=उपन्यस्य--- नरेन्द्र: परदेशे उपन्यस्य ख्यातिं आप्तवान्।
असनम् --- अन्नस्य असनम् सर्वथा निषिद्धम्।
सङ्ग्रह: ; श्रीनिधि अभ्यङ्कर:
मूलम् -- कन्नड संस्कृत क्रियापदकोश: ।
प्रमादा: सन्ति चेत् कृपया कथ्यताम्
http://shreenidhiabhyankar.blogspot.in/
ಕಾಮೆಂಟ್ಗಳು
ಕಾಮೆಂಟ್ ಪೋಸ್ಟ್ ಮಾಡಿ