अनूदित कथावली ३७
अनूदितकथावलिः -३७*परोपकारः पुण्याय* एकस्मिन् ग्रामे एकः देवभक्तः आसीत्। प्रत्यहं अग्निहोत्रादि कर्म, दर्श-पूर्णमासादि इष्टिकर्माणि तथा सोमयागादयः अपि तेन अनुष्ठीयन्ते स्म। एकदा तद्देशस्य राज्ञः एकः दूतः आगत्य तमुवाच - अस्माकं राज्ञे मरणयोगः पण्डितैः सूचितः। तस्य परिहारार्थं प्रायश्चित्तं तैः एवं निरूपितम् ' *मृत्योः सुवर्णप्रतिमा एवं तिलराशिः ब्राह्मणेभ्यः दीयताम् * ' इति। किन्तु यःकश्चिदपि विप्रः दानं स्वीकर्तुं नेच्छति, कृपया भवान् स्वीकरोतु इति। अस्त्विति अङ्गीकृत्य तेन तत्र गमनं कृतम्। तदर्थं निश्चिते अहनि पुरोहितैः संकल्पितेन राज्ञा दत्तं सर्वं स्वीचकार। ततः अचिरादेव तिलराशिः समीपस्थे पुष्करिण्यां यादसां ओदनार्थं तेन दत्ता, एवं कनकप्रतिमां स्वर्णकाराय विक्रीय तेन प्राप्तं सर्वं धनं दीनेभ्यः दानं कृतवान्। तादृशीं दानबुद्धिं दृष्ट्वा राज्ञा साकं सर्वे चकिताः अभूवन्।तदा तेन भक्तेन एवमुक्तम् - ह्यः मम स्वप्ने मृत्योः दर्शनं अभूत्, सः उक्तवान् ' अहं सुलभेन राजानं न परित्यजामि, मम कृते बहुवत्सरैः भवता समाचरितस्य अग्निहोत्रस्य पुण्यफलं दातव्यम् इति ' मया तत् नाङ्गीकृतम् । पुनः तेनैवमुक्तम् -' तथा सति अनुष्ठितस्य सोमयागस्य पुण्यफलं ददातु इति ' तदपि मया निराकृते तेनोक्तः अहम् - अस्तु , तथा सति पुरा भवान् एकदा स्नानं कृत्वा नैवेद्यं सज्जीकृत्य देवाय समर्पयितुं उद्युक्तः आसीत्, तस्मिन् अवसरे एका याचिका बुभुक्षया भवन्तं भिक्षां याचितवती, तदा भवान् अविलम्बेन तस्यै अन्नं तथा पिपासानिवारणार्थे पूजायाः कृते आनीतं कलशस्थितजलमेव दत्तवान्, तत् पुण्यफलं ददातु अहं गच्छामि इति। तच्छ्रुत्वा विस्मृतप्रायां तां घटनाम् अहं स्मृतवान् तथा तत् पुण्यफलं तस्मै दत्तवान्। तुष्टः मृत्युः राजानं त्यक्त्वा गतवान्।मया पञ्चाशत् वर्षेभ्यः यत् पुण्यफलं सम्पादितं तस्य सममभूत् याचिकायाः कृतं दानस्य फलम्। तत्तु महा यागस्य वा बृहत्याः पूजायाः फलसदृशम् अवसरे दानम् इति मत्वा अद्य पुनः मया सर्वं दत्तम् । भवान् चिरं जीवतु इत्युक्त्वा सः विप्रः गतवान्। सत्यमेतत् प्रत्यहं पूजा-व्रत -होम- उपवासादिना पुण्यं प्राप्नुमः । परं परोपकारेण- सत्पात्रदानेन तत्सदृशं महत्पुण्यं प्राप्तुं अल्पकालेन एव शक्यते। केवलं मोक्षं उद्दिश्य पुण्यसम्पादनार्थं यत्नं त्यक्त्वा प्राणिनः सुखेन जीवन्तु इति विचारेण यदा वयं कर्म कुर्मः तदा देवः किं न दद्यात् मोक्षादिकम्! अस्मद्गुरुचरणाः विश्वेशतीर्थश्रीपादाः सर्वदा एतदर्थमेव यतमानाः आसन्, वयमपि तथाविध प्रवृत्तौ मग्नाः भवामः।अनुवादक: श्रीनिधि अभ्यङ्कर: ।उपकर्ता चिदम्बर कुलकर्णि: ।दोषा: दृष्टाश्चेत् अवश्यं सूचयन्तु । तेनैव साधु लेखनं शक्यं भवति। मम लेखनानां कृते पश्यन्तु तथा स्वाभिमतं प्रकटयन्तु नम्रः-http
ಕಾಮೆಂಟ್ಗಳು
ಕಾಮೆಂಟ್ ಪೋಸ್ಟ್ ಮಾಡಿ