ಅನುವಾದಿತ ಕಥೆ ೨೪

अनूदित कथावलिः ----- २४

उद्योगिनं पुरुषसिंहमुपैति लक्ष्मीः

एकस्मिन् जनपदे उत्तमः नृपः एकः आसीत्। तेन प्रजाः पुत्रवत् परिपाल्यन्ते स्म । एकदा सः पौराणां परस्परसहायबुद्धिं  परीक्षितुं  इच्छन् भटान् सर्वान् विहाय प्रधानवीथ्याम् अरुणोदयकाले एव आगतवान् । ततः सः मार्गमध्ये एकं बृहदश्मानं स्थापयामास। 

जनैः किं क्रियते कथं वा तेषां प्रक्रिया  भवेत्  इति दृष्टुकामः सः समीपस्थे गुल्मे स्वम्  आच्छाद्य स्थितवान्। सः मार्गः सर्वदा बहुजनैः उपयुज्यमानः आसीत्। केचन राजकुले वसन्तः  जनाः तेनैव मार्गेण गतवन्तः । यः कोsपि अश्मानं मार्गात् दूरीकर्तुं न प्रयतितवान् । बहुभिः वणिजैः सः मार्गः उपयुक्तः , परंतु न कृतः तैरपि यत्नः। अपरे केचित् राजानम् अधिकारि वर्गं च यथेच्छं तर्जयित्वा गताः । किंतु न केनापि दूरीकृतः सः महालोष्टः ।

तत्रान्तरे एकः शाकविक्रेता मञ्जूषायां शाकान् पूरयित्वा शिरसि निक्षिपन् तत्र आगतः । लोष्टं दृष्ट्वा तेन चिन्तितम् ' हन्त, एतेन लोष्टेन अनेकेषां मार्गे गमनकाले कष्टं भवति,  कथञ्चिदपि एषः दूरीकर्तव्यः मया ' इति  शिरस्थां मञ्जूषां भूमौ स्थापयित्वा तत्र अश्मनः दूरीकरणाय यत्नः कृतः । कतिपयनिमेषेषु बहुयत्नेन तेन साधितम् तत् कार्यम्। 

ततः स्वस्य शाकपेटिकां ग्रहीतुम् आगतेन तेन सुवर्णनाणकस्यूतं  तथा  एकं  पत्रमपि दृष्टम् । पत्रे एवं लिखितमासीत् - मार्गस्थं लोष्टं यः दूरीकरोति सः एतान् सुवर्णनाणकान् स्वीकर्तुम् अर्हो भवति इति ।

वयमपि बहुवारम्  एवमेव चिन्तनं कुर्मः । अस्माभिः किं कर्तुं शक्यते? अस्माकम्  अत्र  दायित्वं किमस्ति, अधिकारि वर्गैः वा मन्त्रिपरिषदा न समीचीनतया कार्यं क्रियते इत्यादि। परं अस्माभिः अस्मिन्नवसरे किं कर्तुं शक्यते इति न चिन्त्यते कदापि । यदि क्रियते तदा अवश्यं लक्ष्मीः अस्मद्विषये प्रसन्ना भवेत् । अतः यत्किमपि जनोपकारि कार्यं भवतु, तत्र यथाकथञ्चिदपि यत्नः करणीयः। 

' जनानुरागप्रभवा हि सम्पदः ' इति तदर्थमेव उक्तं किल! 

अनुवादक: श्रीनिधि अभ्यङ्कर: 
उपकर्ता चिदम्बर कुलकर्णि: 
दोषा: दृष्टाश्चेत् अवश्यं सूचयन्तु । तेनैव साधु लेखनं शक्यं भवति। 
मम लेखनानां कृते पश्यन्तु तथा स्वाभिमतं प्रकटयन्तु 
नम्रः
http://shreenidhiabhyankar.blogspot.com/?m=1

ಕಾಮೆಂಟ್‌ಗಳು

ಈ ಬ್ಲಾಗ್‌ನ ಜನಪ್ರಿಯ ಪೋಸ್ಟ್‌ಗಳು

ಕಿರಾತಾರ್ಜುನೀಯ ಪರಿಚಯ

ಪ್ರತಿಮಾ ನಾಟಕ

ಸಂಸ್ಕೃತ ವಿಶೇಷ ಶ್ಲೋಕಗಳು ೩