ಅನುವಾದಿತ ಕಥೆ ೨೩
अनूदित कथावलिः ----- २३
को जानाति क: मूढः कः बुद्धिमान् इति
एकस्मिन् ग्रामे एकः बालकः वसति स्म। जनाः सर्वे तं मूढः इति अपहसन्ति स्म । तस्य मूढतायाः कारणमिदमासीत् - यः कश्चन तद्ग्रामं प्रति आगते ग्रामस्य युवकाः एतस्य मूढतां तेभ्यः दर्शयितुं तत्समीपे तान् नीत्वा एकहस्ते एकरूप्यकस्य नाणकद्वयं , अपरस्मिन् पञ्च रूप्यकाणां एकं नाणकं तस्मै दर्शयन्ति स्म। तस्मिन् अवसरे सः एकरूप्यकस्य नाणकद्वयं स्वीकरोति स्म। तद्दृष्ट्वा एषः मन्दमतिः द्विरूप्यकाणां सकाशात् पञ्च रूप्यकाणां मौल्यं अधिकमित्यपि न जानाति इति तम् अपहसन्ति स्म।
एवं चतुर्मासाः अतीताः । एकदा एकः ग्रामस्थः वृद्धः दूरे अङ्गणे क्रीडतः तस्य मन्दतां दूरीकर्तुकामः तम् आहूतवान् । ततः तेन स्थविरेण सः बालः पृष्टः - रे बाल, कुतः त्वं मूढधिया पञ्च रूप्यकाणि त्यक्त्वा रूप्यकद्वयं केवलम् आगतेभ्यः जनेभ्यः स्वीकरोषि? त्वम् एतादृशं सरलविषयमपि न जानासि किम् ? इति । तदा तेन एवमुत्तरं दत्तम् - तात , रूप्यकाणां मौल्यम् अहं सम्यग्जानामि। तत्र रूप्यकद्वयस्य स्वीकारे एकं कारणं विद्यते। एषा क्रीडा चतुर्मासं यावत् प्रचलती अस्ति। यदि मया पञ्चरूप्यकाणां नाणकं चीयते तदा एषा क्रीडा समाप्ता भवति। तस्मात् जानतोपि अहं न्यूनमेव रूप्यकं चिनोमि। एतेन मम कदाचित् विनाश्रमेण धनप्राप्तिः भवति। इदानीं वद - किमहं मन्दः? ।
लोके पुरतः दृश्यमानं सर्वं न सत्यविषयकं भवति। तत्रापि नानाविधानि कारणानि दृश्यन्ते। कदाचित् अस्माकं निर्णयः एव असाधु भवेत् । अतः सर्वदा बहुवारं विचिन्त्य भूयोभूयो कारणानि शोधयित्वा निर्णयः स्वीकर्तव्यः । नो चेत् वयमेव मूढाः भवेम।
तदर्थमेव आचार्यशङ्करैः उपदिष्टम् - अर्थमनर्थं भावय नित्यम् इति ।
अनुवादक: श्रीनिधि अभ्यङ्कर:
उपकर्ता चिदम्बर कुलकर्णि:
दोषा: दृष्टाश्चेत् अवश्यं सूचयन्तु । तेनैव साधु लेखनं शक्यं भवति।
मम लेखनानां कृते पश्यन्तु तथा स्वाभिमतं प्रकटयन्तु
http://shreenidhiabhyankar.blogspot.com/?m=1
ಕಾಮೆಂಟ್ಗಳು
ಕಾಮೆಂಟ್ ಪೋಸ್ಟ್ ಮಾಡಿ