ಅನುವಾದಿತ ಕಥೆ ೨೨

अनूदित कथावलिः ----- २२

                 भक्तिरव्यभिचारिणी
१. जटिलस्य भीतिः 

काननसमीपस्थे एकस्मिन् ग्रामे जटिलनामको बालकः वसति स्म। सः प्रत्यहं अरण्यमार्गमनुसृत्य शालां गच्छति स्म। सः मार्गः सदा तस्य भीतिजनकः आसीत्। अतः कदाचित् शालां गच्छति कदाचित् न । एवं दिनानि यापयति स्म सः । एकदा सः मातुः सकाशे उक्तवान् - अम्ब, अहं शालां गन्तुं नेच्छामि, तन्मार्गे मया भीतिः अनुभूयते प्रत्यहम्, इतः परं तव सकाशे पठितुमिच्छामीति । तया भणितं -' वत्स , कुतः त्वं बिभेषि, यदाकदा त्वया भीतिः अनुभूता चेत् त्वम् अग्रजं मधुसूदनमाह्वय, सः आगत्य त्वां नेष्यति '  इति । अस्त्विति तदाज्ञां शिरसि धृतवान् । 

ततः एकदा गमनकाले सः अतिशयेन भीतः , झटिति आहूतवान् मधुसूदनम्  ' भो मधुसूदन कुत्रासि, अहं बिभेमि, आगच्छ शीघ्रम् ' इति। कुत्र मधुसूदनः , वा अग्रजः ? न को$पि आगतवान्।  तथापि मातृवचने विश्वस्तेन तेन उच्चैः पुनः द्वित्रिवारं आहूतः मधुसूदनः - अरे आगच्छ, कुतः मां परीक्षसि इति। तथापि  तेन अनागते तारकस्वरेण क्रन्दितुमारेभे । तदा तस्य अवस्थां दृष्ट्वा मध्वरिः स्वयमागत्य तं शालां नीतवान्, उक्तं च - इतःप्रभृति मा भैषीः , उच्चैः माम् आह्वय , निश्चयेन अहमागमिष्यामीति। 

२. बालस्य निवेदनम् । 

एकस्य ब्राह्मणस्य गृहे प्रतिदिनं देवपूजा उत्तमतया प्रचलति स्म । एकदा देवपूजकः गृहस्थः दूरं कार्यार्थं गन्तुकामः आसीत्। गमनकाले तेन कनिष्ठपुत्रः आदिष्टः - वत्स त्वं प्रथमं देवाय नैवेद्यं समर्प्य ततः भुङ्क्ष्व उति । 

ततः परेद्युः प्रातः स्नानादि समाप्य बालकः पूजां सुष्टु कृतवान् । अन्ते नैवेद्यं समर्पितवान् - अन्न, पायसादि। पञ्चनिमेषाः  यावत् प्रतीक्षा कृता, तथापि देवः नैवेद्यं स्वीकर्तुं नागतः । तदा सः बालः देवं पुनः आहूतवान्- 'भोः शीघ्रमागच्छ, कुतः तूष्णीं स्थितवानसि, किं त्वं न बुभुक्षितः ?'  इति। तथापि देवः नागतः। बालस्य मनसि एवं चिन्तनमासीत् - देवः पीठादागत्य नैवेद्यं भक्षयति इति। 

किंतु बहुकालं प्रतीक्षमाणो$पि यदा देवं न दृष्टवान्  तदा  ' हे देव इतःपरं प्रतीक्षां कर्तुम् अहमसमर्थः , अत्यन्तं बुभुक्षितो$स्मि, मम पित्रा आदिष्टः अहं, देवाय समर्प्य भोक्तव्यम् इति। किमर्थं त्वं नागच्छसि , मम हस्ताभ्यां दीयमानं तुभ्यं न रोचते किम् ? इति रोदितुमारेभे । 

ततः तस्य श्रद्धां दृष्ट्वा बहिरागत्य देवेन स्वीकृतं नैवेद्यम् । ततः देवसदनात् बहिरागतं बालं विलोक्य मात्रा पृष्टम् - निवेदितं  आनयेति । तदा तेन उक्तं, तत् सर्वं देवेन स्वीकृतमिति। चकिता सा पत्युरागमनानन्तरं सर्वं तस्मै निवेदितवती । सो$पि आश्चर्येन किंकर्तव्यतामूढः बभूव। तेन चिन्तितम् बहुवर्षैः दीयमानमपि मम सकाशात् एकवारमपि न स्वीकृतं किमपि। किंतु पुत्रा दत्तं एकवारमपि स्वीकृतम्,   धन्यो$यं  बालकः इति। 

आभ्यां कथाभ्यां अस्माभिः  किं ज्ञातव्यम्  इति चेत्- भगवति भक्तिः अव्यभिचारिणी भवेत्। तत्र कथङ्कारमपि संशीतिर्नकरणीया । तथारूपा भक्तिः प्रदर्शिता चेत् निश्चयेन देवाः दरीदृश्यन्ते, अनुगृह्णन्ति च अस्मान् । 

अनुवादक: श्रीनिधि अभ्यङ्कर: 
उपकर्ता चिदम्बर कुलकर्णि: 
दोषा: दृष्टाश्चेत् अवश्यं सूचयन्तु । तेनैव साधु लेखनं शक्यं भवति। 
मम लेखनानां कृते पश्यन्तु तथा स्वाभिमतं प्रकटयन्तु 
http://shreenidhiabhyankar.blogspot.com/?m=1

ಕಾಮೆಂಟ್‌ಗಳು

ಈ ಬ್ಲಾಗ್‌ನ ಜನಪ್ರಿಯ ಪೋಸ್ಟ್‌ಗಳು

ಕಿರಾತಾರ್ಜುನೀಯ ಪರಿಚಯ

ಪ್ರತಿಮಾ ನಾಟಕ

ಸಂಸ್ಕೃತ ವಿಶೇಷ ಶ್ಲೋಕಗಳು ೩