ಅನುವಾದಿತ ಕಥೆ ೩೫
अनूदितकथावलिः-३५
जीवनं सञ्जीवनम्
जीवने असन्तुष्टः एकः युवा आत्महत्यां कर्तुं चिन्तितवान् । मरणार्थं कः सुलभः उपायः इति ज्ञातुं किञ्चित् कालं अभवत् । सर्वेषु तादृशेषु उपायेषु धूमशकटयानमार्गपतनं अत्यंतं सुलभं इति मत्वा लोहयानस्थानकम् गतवान् । तत्र बहुजनाः आसन् । तान् दृष्ट्वा चकितः सः एवं पृष्टवान् ।
भोः सर्वैः कुत्र प्रस्थानम् क्रियते ? इति। तैरुक्तम् - वयं तिरुवण्णामलै नगरं गमिष्यामः , तत्र रमणमहर्षेः दर्शनं भवति , तेन सर्वपापानि परिहृतानि भवन्ति इति। एवं रीत्या सहस्राधिकाः तेषां दर्शनार्थं गच्छन्ति चेत् सः महान् पुरुषः स्यादित्यालोच्य यूना चिन्तितम् - ज्ञानेन वा अज्ञानेन मयापि पूर्वजन्मनि नानापापानि घटितानि स्युः , एतज्जन्मनि तेषां समेषां सकाशात् कष्टम् अनुभवन् अस्मि, आगामिजन्मनि सुखम् अनुभवितुं सर्वपापानां अपनोदनं कार्यम् , तथा च पापनाशार्थम् अहमपि गमिष्यामि इति।
ततः तिरुवण्णामलै नगरं गत्वा रमणमहर्षिं दृष्टवान् सः । अल्पश्मश्रुः , कृशकायः सः महर्षिः तावता पलाशपत्रैः भोजनार्थं पत्रावलिं कुर्वन् आसीत्। श्रेण्यां तिष्ठन् सः युवा स्वस्य पर्याये साष्टाङ्गं प्रणम्य कौतुकेन तमेव अवलोकितवान् । महर्षिस्तु तस्य नेत्रौ पश्यन् मन्दहासं चकार।
ततः भोजनसमये कार्यकर्तारः सर्वान् पङ्तौ उपवेश्य दूरं गतवन्तः । तदा साक्षात् महर्षिः स्वनिर्मितपत्रावलीं एकैकस्य पुरतः स्थापयन् आगतः । एषः किञ्चित् निराशया, आश्चर्येन च तमेव पश्यन् एवं चिन्तितवान्- किमेषः महान् साधुः ! ज्ञानी च! कथं सिद्ध्यति! सामान्यः इव कौपीनं धृत्वा परिवेशयन् अस्ति! इति ।
भोजनानन्तरं पत्रावलिं प्रक्षिप्य हस्तं प्रक्षाल्य महर्षेः पुरतः उपविष्टः सन् एवं पृष्टवान् सः - गुरो, ममैकः प्रश्नः अस्ति, पृच्छामि किम् ? इति। रमणमहर्षिणा मन्दहासं प्रदर्शयन् वत्स पृच्छ इत्युक्तम् । तेन पृष्टम्- भवद्भिरेव पत्रावली रचिता, जनाः पत्रावलीमुपयुज्य भुक्तवन्तः,भोजनसमाप्तौ अवकरिकायां क्षिप्त्वा गतवन्तः, भवतः श्रमः व्यर्थः अभवत् खलु ? ।
महर्षिणा उक्तम् - एकस्य विषयस्य वा पदार्थस्य वा द्रव्यस्य प्रयोजनं तत् कथम् उपयुज्यते इति निर्दिष्टं भवति। उदाहरणार्थं एतत् पलाशपत्रम् । उत्तमानि पत्राणि आनीय, तानि मार्जयित्वा, वंशशलाकया संयुज्य पत्रावलीं रचयन्ति। तस्य सार्थकता नाम पत्रावल्याः उपयोगः । तेषां निर्माणं भोजनार्थं एव अभवत् । जनाः तेषु भुक्तवन्तः। ततः तानि अवकारिकां प्रविष्टानि। काले गतेसति पुनः भूमौ सस्यानां आहारो भविष्यन्ति। तदा तेषां जन्म सार्थकं भवति। एवमेव शरीररुपे पत्रे जन्मजन्मान्तराणां फलानि भोक्तुं भगवता जीवः अत्र प्रेषितः । फलभोगानन्तरम् एतत् परित्यज्य सः जीवः अन्यत्र गच्छति । यदि भोगपूर्वे एव त्यागः उद्दिष्टः चेत् अस्य जन्म एव व्यर्थं भवति। तथा च जीवने किमपि साधनात् पूर्वे एव मरणस्य चिन्तनमेव न करणीयम् इति। तच्छ्रुत्वा यूना आत्महत्या विचारः त्यक्तः , नूतनोल्लासः अपि जीवने प्रदर्शितः।
अस्माकं जीवनम् भगवता अस्मत्कृते दत्तम् एकं वरम् । तदुपयुज्य किमपि साद्धुम् शक्यम्। तथा च शतं जीवाम, साधयाम इत्येव धीः सदा स्यात् सर्वेषाम् ।
अनुवादक: श्रीनिधि अभ्यङ्कर: ।
उपकर्ता चिदम्बर कुलकर्णि: ।
दोषा: दृष्टाश्चेत् अवश्यं सूचयन्तु । तेनैव साधु लेखनं शक्यं भवति।
मम लेखनानां कृते पश्यन्तु तथा स्वाभिमतं प्रकटयन्तु
नम्रः-
http://shreenidhiabhyankar.blogspot.com/?m=1
ಕಾಮೆಂಟ್ಗಳು
ಕಾಮೆಂಟ್ ಪೋಸ್ಟ್ ಮಾಡಿ