ಅನುವಾದಿತ ಕಥೆ ೩೬
अनूदितकथावलिः-३६
उपकारधीः
गिरिवननामकं विपिनमेकं प्रसिद्धमासीत् । तत्र बहुसंख्याकाः चन्दनपादपाः आसन्। वृक्षस्येकस्योपरि शुकसंसारः वसति स्म।
एकदा ग्रीष्मकाले अंशुभिः जनिततापेन मन्दवातेन च वृक्षेषु लघुघट्टनं, तेन च वह्निः जातः । अचिरादेव तृणं व्याप्य अरण्यं भक्षयन्निव भासमानः सः शुकवसतेः वृक्षस्य समीपम् आगच्छत्। तत्समये शुकपितरौ आहारार्थं सुदूरं गतवन्तौ आस्ताम् । एकः शावकः एव वृक्षमाश्रित्य स्थितः । सः वृक्षराजः करुणया तं शुकशावकं प्रति अवोचत्- हे शिशो, वह्निः सर्वं भक्षयन् ज्वालाभिः प्रसृतः समीपमागतः । अहं तु स्थविरः । अद्य वा श्वः वा मृतः भवामि। भवान् न तादृशः, वह्निना एकैका मम शाखा व्याप्ता खादिता च भवति। मम काण्डस्यापि अचिरादेव अग्निः प्रसरति। मम कृते चिंतां मा कुरु। भवतः जीवनं बहु दीर्घम् अस्ति। तथा च भवान् मां त्यक्त्वा क्षणाद्दूरं गच्छतु इति।
सः शावकः आश्रयदातुः वृक्षस्य नाशम् असहमानः दुःखितः बभूव। उपकृतस्य कष्टे प्राप्ते प्रत्युपकारः कर्तव्य एव, आपदि एनं त्यक्त्वा कुत्र वा कथं गच्छामि इति विचिन्त्य समीपस्थे ह्रदे निमज्य पक्षाभ्यां जलमानीय वह्नेरुपरि सिञ्चितम् तेन। यथाकथञ्चित् वह्निः शाम्यतीति तस्य विश्वासः। भूयो भूयो पक्षाभ्यां जलमाहृत्य सिञ्चति, गच्छति च। तेन यत्नेन सः नितरां श्रान्तः अभवत् । वह्नेः तापेन वेदनामपि अनुभूतवान्। तथापि तत्सर्वं उपेक्ष्य सः कार्यमग्नः आसीत्। वह्निस्तु सर्वत्र व्याप्तः बभूव।
तदा स्वर्गस्वामी पाकशासनः एतस्य शुकस्य साहसं दृष्ट्वा लघुरपि अयं यत्नः महानेव इति तुष्टः सन् वरुणमादिदेश शावकवने वृष्टिः भवत्विति। एषः वयसा शावकः किंतु न उपकारधिया इति वरुणेनापि दयया वर्षाधारा कृता। क्षणादग्निः नष्टः । शुकसाहसेन वृक्षः पुनर्जन्म प्राप्तवान् ।
एषा एका कथा। तथापि 'कृते च प्रतिकर्तव्यं एष धर्मः सनातनः ' इति उक्त्यनुसारेण यः को$पि उपकरोति तस्मै अवश्यं समये प्रत्युपकारः कर्तव्यः इति शुकः अस्मान् पाठयति। तदनुसारेण व्यवहारं प्रदर्शयामः सदा इति आशयः अस्याः कथायाः।
अनुवादक: श्रीनिधि अभ्यङ्कर: ।
उपकर्ता चिदम्बर कुलकर्णि: ।
दोषा: दृष्टाश्चेत् अवश्यं सूचयन्तु । तेनैव साधु लेखनं शक्यं भवति।
मम लेखनानां कृते पश्यन्तु तथा स्वाभिमतं प्रकटयन्तु
नम्रः-
http://shreenidhiabhyankar.blogspot.com/?m=1
ಕಾಮೆಂಟ್ಗಳು
ಕಾಮೆಂಟ್ ಪೋಸ್ಟ್ ಮಾಡಿ