ಅನುವಾದಿತ ಕಥೆ ೧೨

अनूदितकथावलि: -११
              तितिक्षा किं न जनयति

एकस्मिन् जनपदे एक: नृपति: आसीत्। एकदा  राज्ये जनानां जीवनं कथं प्रचलत् वर्तते इति स्वयमेव दृष्टुम् उत्सुक: स: प्रस्थित:। यदा तेन स्वाधीनस्थ: क्षेत्रमार्ग: प्राप्त: तदा सर्वत्र हरितवर्णेन विराजमानानि द्राक्षाफलक्षेत्राणि दृष्टानि। राजानं दृष्ट्वा अनेके  क्षेत्रकृषका: आगत्य द्राक्षा फलानां मञ्जूषां तस्मै दत्तवन्त:। मधुराणि तानि फलानि आस्वाद्य राजा भृशम्  आनन्दमवाप। एवमेव पुरत: यदा गच्छति स्म तदा तेन एकं विचित्रं क्षेत्रं दृष्टम् । तत् क्षेत्रे सस्या: सर्वथा पुष्टा: रोगहीना: अपि एकस्मिन् सस्ये अपि फलम् अल्पमपि न उत्पन्नम् आसीत्। एतेन चकित: राजा तत् क्षेत्रस्य कार्यकरम्   आहूय किमत्र कारणम् इति पृष्टवान् । 

स: क्षेत्रकृषक:एवमुक्तवान् राजानं प्रति - भो राजन् , अफले एवं कारणं वर्तते,एता: द्राक्षालता: असामान्या:।  एतासु  लतासु विंशति वर्षानन्तरं फलं भविष्यति। मया दशवर्षेभ्य: प्राक् एता: क्षेत्रे रोपिता:। अधुनापि दशवर्षा: प्रतीक्षमाणा: भवन्ति , मया जीवननिर्वहणार्थं अन्या: लता: अन्यत्र रोपिता:, तासु उत्तमं  फलं दृश्यते, एता: तु मम जीवनस्य साधनारूपलता: , यदि अहं जीविष्यामि तर्हि निश्चयेन फलं प्राप्स्यामि  इति। 

तस्य वचनानि आकर्ण्य चकित: राजा  एष: मूर्ख: इव न भाति, एतादृश फलभेद: लोके स्यात् इति विचार्य एवं ब्रवीति ' भो कृषीवल, तव सहनया अहं नितरां तुष्ट:, यदि उभौ अपि दशवर्षानन्तरं जीविष्याव:, लतासु फलविकासोपि यदि भवेत्,  तर्हि मम कृते एतानि फलानि त्वया प्रेषितव्यानि ' इति। तत: राजा तमेव मनसि चिन्तयन् अन्यत्र गत:।

कालो गत: । प्रभातसूर्य: यथा अतिवेगेन अस्ताचलं गमिष्यति तथैव दशवर्षाणि अपि गतानि । स: कृषिक: तासु लतासु फलानि अतिशयेन  प्राप्तवान् । राज्ञः वचनं न विस्मृतवान् स:। सुमुहूर्ते प्रासादं गत्वा राजानं प्रति द्राक्षाफलानि समर्पितवान् स:। यष्टिम् आश्रित्य क एष वृद्ध: द्राक्षाफलानि दातुम् इयद्दूरं आगतवान्, किमस्ति अस्य मनसि इति विचिन्त्य राजा तं पृष्टवान् - भो कृषीवल, एषु द्राक्षाफलेषु किं  वैशिष्ट्यं वर्तते? इति। तदा तेन भणितम्- भो राजन् , एतानि फलानि लतासु विंशतिवत्सरानन्तरं मया प्राप्तानि।  भवान् दशवर्षेभ्य: प्राक् तव अधीनक्षेत्रम्  ईक्षितुं आगतो आसीत्। तदा त्वया उक्तम्  ' यदि एतासु लतासु फलं लप्स्यसे तर्हि ममापि प्रेषय इति। इदानीमेव तत्र फलविकासो$भूत् । अत: मया अत्र आनीतानि इति। 

वृद्धस्य वचनं श्रुत्वा तुष्ट: स: तानि फलानि भक्षयित्वा अतिशयेन माधुर्यं तेषु अवलोक्य वृद्धाय तत् क्षेत्रस्य पूर्णं स्वामित्वं  तत्क्षणे दत्वा सत्कृतवान् ।  सभासद: राज्ञः निर्णयेन क्षणात् चकिता: अभूवन् ।द्राक्षाफलकृषिकाय सम्पूर्ण क्षेत्रस्वामित्वं कथमनेन दत्तम् इति। 

तत: सा वार्ता सर्वत्र राज्ये प्रसृता। बहवः कृषीवला: आस्थानम्  आगत्य नानाविधानि शाक-फलादीनि राज्ञे समर्पितवन्त: । नृपस्तु तानि स्वीकृत्य विपणौ किं तेषां मौल्यं वर्तते केवलं तावन्मात्रं दत्वा प्रेषितवान् । एतेन कुपिता: सभासदा: राजानं पृष्टवन्त: ' पक्षपात: किमर्थं भवता प्रजानां मध्ये क्रियते, एकस्य क्षेत्रस्वामित्वं , अन्येषां केवलं वस्तुन: मौल्यम्' एतत् असमीचीनम् इति। राजा तु तत्सर्वं श्रुत्वा समाधानेन एवम् उक्तवान् ' भो महान्त: भवदुक्तं समीचीनम्, तथापि कृषिकेषु व्यत्यास: वर्तते। य: कोपि कृषिक: किं विंशतिवर्षपर्यन्तं फलार्थं प्रतीक्षां करोति?  न कदापि, इदानीं रोपितम् मासानन्तरं तेन तत्र फलं वाञ्छितम् भवति, फलाभावे देवान् - राजानं, स्वं च यथेष्ठं निन्दति। परं एतेन वृद्धेन  दीर्घावधि: प्रतीक्षा  कृता। तत: अतिमधुरं फलं तेन प्राप्तम्। एषा तस्य तपस्या एव। सर्वै: यावछ्चीघ्रं फलं वाञ्छ्यते। एतादृशीं  प्रतीक्षां कर्तुं य: कोपि न सिद्ध: भवति, कुत इति चेत् अस्माकं जीवनं क्षणभङ्गुरम् । कृषिविभागे कृतां तपस्यां दृष्ट्वा मया क्षेत्रस्वामित्वं दत्तम् , न तु केवलफलार्थम् । जीवने किमपि आत्मसात्कर्तुं एतादृशी तितिक्षा अवश्यं करणीया।  निश्चये  कृते उत्तमं फलम् अस्माभि: प्राप्यते । 

पूर्वं राम: चतुर्दश वर्षाणि, पाण्डवा: त्रयोदश वर्षाणि प्रतीक्षमाणा: आसन् । अन्ते तै: सुखं अनुभूतम् । तेषां मार्गमनुसृत्य वयमपि यत्किञ्चित् साधयाम:।

प्रमादा: दृष्टा: चेत् कृपया कथ्यन्ताम्

अनुवादक: - श्रीनिधि अभ्यङ्कर:
उपकर्ता-  चिदम्बर:

http://shreenidhiabhyankar.blogspot.in/

ಕಾಮೆಂಟ್‌ಗಳು

ಈ ಬ್ಲಾಗ್‌ನ ಜನಪ್ರಿಯ ಪೋಸ್ಟ್‌ಗಳು

ಕಿರಾತಾರ್ಜುನೀಯ ಪರಿಚಯ

ಪ್ರತಿಮಾ ನಾಟಕ

ಸಂಸ್ಕೃತ ವಿಶೇಷ ಶ್ಲೋಕಗಳು ೩