ವ್ಯಾಕರಣ ೭
📖संस्कृत व्याकरणं किं सुलभं वा ????? चिन्तनम् =७📖
चर्व धातु:
अदनम् अर्थ:
प्रथमगणस्थ:
सेट्
परस्मैपदम्
सकर्मक:
१. चर्वति--- धेनु: तृणं चर्वति ।
२. चर्विष्यति--- मया बहिर्द्वारम् उद्घाट्य एव यदि गच्छेत् तदा अजा आगत्य पुष्पवाटिकायां निश्चितं चर्विष्यति ।
३. चर्वयति ---गोपालक: गवा खेटं चर्वयति।
४. चर्व्यते--- मेषेण सर्वविधपत्राणि चर्व्यते।
५. चर्वितव्यम् --- अस्माभिरपि सर्वदा ग्रासं बहुवारं चर्वितव्यम् वा चर्वणीयम् ।
६. चर्वित: --- मम अभित: : एव गर्दभेन सदापुष्पसस्यं चर्वितम्।
७. चर्वितवान् --- आपत्सु मृगा: प्राप्तं सर्वं चर्वितवान् ।
८. चर्वन् --- चर्वन्तीं गां मा स्पृश।
९. चर्वितुम्- - गवे अहोरात्रं चर्वितुम् इष्टमेव ।
१०. चर्वित्वा -- तृणं चर्वित्वा क्षीरं यच्छति धेनु:।
११. प्रचर्व्य----अश्वा: कुलित्थं प्रचर्व्य वेगेन धाविता: ।
१२. चर्वणम् -- चर्वितस्यैव पुन: चर्वणं मृगाणां सहज: स्वभाव:।
सङ्ग्रहलेख: - श्रीनिधि अभ्यङ्कर: ।
मूलम् -- कन्नड संस्कृत क्रियापदकोश: ।
प्रमादा: सन्ति चेत् कृपया कथ्यन्ताम्
http://shreenidhiabhyankar.blogspot.in/
ಕಾಮೆಂಟ್ಗಳು
ಕಾಮೆಂಟ್ ಪೋಸ್ಟ್ ಮಾಡಿ