ಅನುವಾದಿತ ಕಥೆ ೧೧
अनूदितकथावलि: -११
आज्ञा गुरूणां ह्यविचारणीया
प्रत्यहं पुत्र: विद्यालयं गच्छति स्म। सायं विद्यालयात् आगत्य हस्तपादादि प्रक्षाल्य दूरदर्शनम् अभित: यदा उपविष्ट: झटिति पित्रा आदिष्ट: ' बाल, गुरुणा उक्तानि गृहलेखनानि समाप्यैव अत्रोपविश' इति। बहिर्गमनकाले यदाकदाचित् द्वारम् उद्घाट्यैव गन्तुमुद्युक्त: चेत्, तदा तं समीपमाहूय पित्रा उच्यते स्म ' प्रथमं द्वारं पिदधातु , तत: यत्र कुत्रापि गच्छ' इति। एवमेव गृहे येन केनापि नलिकाम् उपयुज्य स्तम्भितुं विस्मृतं चेत् तस्मिन् समये पितुराज्ञा आकर्ण्यते स्म तेन ' वत्स जलस्य व्यर्थगमनं यावच्छीघ्रं स्तम्भय ' नलिकां शमय' इति। पुनः प्रकोष्ठे जनानाम् अभावेsपि भ्रमन्तं विद्युत् व्यजनं दृष्ट्वा जनक: आदिशति स्म तम् ' अरे मूर्ख, न दृश्यते त्वया , अविलम्बेन पङ्कं निवारय' इति।
एवमेव प्रत्येकस्मिन्नपि कार्ये पितु: आदेश:, कदाचित् रटनं, कदाचिन्निन्दा, बन्धूनां सकाशेsपि स्वस्य नियमपालनाभावे गर्हति स्म स्वसुतम् । एतादृशस्थित्या असहनाया: परां स्थितिम् अनुभूतवान् स: पुत्र:। तेन चिन्तितमिदं ' यदि अहं पितु: समीपे एव वसामि तर्हि एतादृश भर्त्सनं सर्वदा श्रूयते मया , तथा च पितरं त्यक्त्वा दूरं गत्वा वसामि, तदा य: कोsपि मां कुत:? कुत्र? कथम्? किमर्थं? इत्यादि न पृच्छति ' इति। अचिरादेव स: अचिन्तयत् यत् मया अधुना य:कोsपि उद्योग: न प्राप्त: , यदि गृहं त्यजामि तदा जीवननिर्वहणं कष्टकरम् भवेत् ' इति ।
मासानन्तरम् एकस्यां संस्थायाम् उद्योगार्थं संदर्शनाय स: आह्वानित:। मम प्रार्थना दैवात् श्रुता इति मन्ये ,यदि तत्र उद्योग: लब्ध: चेत् भाटकाय प्रकोष्ठं गृहीत्वा गृहं त्यक्त्वा आनन्देन वसामि इति चिन्तितवान् स:।
तद्दिनम् आगतम्। संदर्शनगमनकाले पित्रा पुनरपि उपदिष्ट: स: - तत्र गम्भीरेण तेषां प्रश्नानाम् उत्तरं वद, प्रश्नेन विना वा पूर्वमेव यत्किमपि उत्तरं मा वद, उत्तमवस्त्रं धृत्वा गच्छतु , तत्र गम्भीरेण उपविश' इत्यादि। तेन चिन्तितम् अद्य आन्तिम वारं शृण्वन्नस्मि।श्व: प्रभृति एतादृश रटनं स्वप्नेपि न श्रूयते, आधुनिककाले एतादृश विषयान् क: अनुसरति? इति।
यदा संस्थाया: बहिर्द्वारं तेन प्राप्तं तदा तत् उद्घाट्य निविष्टम् आसीत्, पितुः वचनं स्मृत्वा तेन तत् पिहितम् । तथैव भवने सर्वत्र व्यर्थं विद्युत् व्यजनं चालयितम् आसीत्। तत् दृष्ट्वा तेन गृहे यथा करोति स्म तथैव निवारितम् । तत: नलिकायां व्यर्थमेव जलं प्रवाहरुपेण गच्छति स्म मूत्रप्रकोष्ठे। तस्य रव: श्रुत्वा अन्त: गत्वा निवारितवान् । एवं तेन यूना पितुराज्ञां मनसि निधाय कार्याणि कृतानि ।
तत: आसने उपविश्य संदर्शनं प्रतीक्षमाण: आसीत्। केचित् कालानन्तरं तत्संस्थाया: निर्देशक: आगत्य अस्य कृते शुभाशंसनं उक्त्वा श्व: प्रभृति उद्योगार्थम् आगच्छतु इति उक्तवान् । स: तस्मिन् क्षणे आश्चर्येन तम् अपृच्छत् ' महोदय, अहं संदर्शनाय एव अधुनापि न आहूत: कथं मह्यम् उद्योग: दत्त: भवता , किमत्र कारणम् ' इति। तदा तेन निदेशकेन एवं भणितम् 'साधु पृष्टं त्वया , किंतु अस्माभि: भवत्कृतानि सर्वकार्याणि चित्रग्राहिकायां दृष्टानि । भवत्सदृश: उपकारी जन: अस्माभि: प्रतीक्षमाण: आसीत्। पङ्कादि समीचीनतया स्तब्धं कृतम् , जलगमनञ्च निवारितम्, द्वारमपि पिहितम् । एतादृश उत्तमा: गुणा: सर्वथा अस्माकं संस्थायां माननीया: भवन्ति' इति।
स: युवा तु तस्य वचोभि: तुष्ट: अविलम्बेन धन्यवादं तस्मै समर्प्य गृहमागत्य पितु: पादयो: पतित्वा अश्रूणि अमुञ्चत् । पित्रा उक्तम् ' वत्स, उत्तिष्ठ, किमर्थम् अश्रूणि मुञ्चसि , उद्योग: प्राप्त: किम् ? नोचेदपि चिन्तां मा कुरू, आगच्छ समीपम् इत्युक्त्वा तम् आलिङ्गितवान् । पुत्रेण उत्तरं दत्तम् ' तात, मां क्षमस्व, भवदुक्तवचनानां महत्वम् अद्य मया साक्षात्कृतम्। इत:पूर्वं किमर्थं मम पिता सदा नियमान् भषति इत्येव चिन्तितम्, किन्त्वद्य तादृशनियमपालनेन एव मम उद्योग: लब्ध: , मां क्षमस्व इति वारं वारं पादयोः पतितवान् । पित्रा तु पुनः दृढम् आलिङ्गित: स: ।
किमस्ति अस्या: कथाया: नीति: इत्युक्ते ' वृद्धवचनं सर्वदा ग्राह्यम् ' । देवराज: इन्द्र: अपि वृद्धश्रवा इति प्रसिद्ध:। तेन नष्टं न किमपि भवति , यदाकदाचित् लाभ: एव भवति । तदर्थं उपनिषदि उच्यते ' पितृदेवो भव' इति।
प्रमादा: दृष्टा: चेत् कृपया कथ्यन्ताम्
मूलम्- आचार्य श्रीश:
अनुवादक: - श्रीनिधि अभ्यङ्कर:
उपकर्ता- चिदम्बर:
http://shreenidhiabhyankar.blogspot.in/
ಕಾಮೆಂಟ್ಗಳು
ಕಾಮೆಂಟ್ ಪೋಸ್ಟ್ ಮಾಡಿ