ವ್ಯಾಕರಣ ೮
📖संस्कृत व्याकरणं किं सुलभं वा ????? चिन्तनम् =८📖
चिञ् धातु:
चयनम् अर्थ:
पञ्चमगणस्थ:
अनिट्
उभयपदि
सकर्मक:
१.चिनोति--- सा पुष्पकणिशात् पुष्पं चिनोति ।
२. चेष्यति--- आतपकाले आगते आम्रफलानि कृषिक: चेष्यति ।
३. चापयति/ते --- कुबेर: सेवकद्वारा उद्यानपुष्पाणि पूजार्थं चापयति।
४. चीयते--- मया ब्राह्मीमुहूर्ते उत्थाय कुसुमानि चीयन्ते।
५. चेतव्यम् --- बालै: प्रात: अवश्यं कुसुमादि चेतव्यम् ।
६. चयनीयम् --- अनुरागस्य दार्ढ्यार्थं प्रियाया: इष्टतमं वस्तु चयनीयम्।
७. चित: --- कर्षकेण वृष्टिकालाद् पूर्वमेव बीजानि चितानि ।
८. चितवान् --- स: किमर्थं तादृश उद्योगं चितवान् इति प्रश्न: मां सर्वदा बाधते ।
९. चिन्वन्--- पुष्पाणि चिन्वन्ती दमयन्ती नलम् अकस्मात् दृष्टवती ।
१०. चिन्वान:---भक्ष्याणि चिन्वान: तुन्दिल: पाचकस्य उपस्थितिम् एव विस्मृतवान् ।
११. चेतुम् ---- मल्लिकापुष्पाणि चेतुम् उपवनं गता तरुणी।
१२. निश्चित्य -- चहापानं त्यजामि इति निश्चित्य अहं तत: निश्चयमेव त्यक्तवान् ।
१३. चयनम् --- युद्धे विजयार्थं गरुडचयनं कार्यम् ।
सङ्ग्रहलेख: - श्रीनिधि अभ्यङ्कर: ।
मूलम् -- कन्नड संस्कृत क्रियापदकोश: ।
प्रमादा: सन्ति चेत् कृपया कथ्यन्ताम्
http://shreenidhiabhyankar.blogspot.in/
ಕಾಮೆಂಟ್ಗಳು
ಕಾಮೆಂಟ್ ಪೋಸ್ಟ್ ಮಾಡಿ