ಅನುವಾದಿತ ಕಥೆ ೧೨

अनूदित कथावलि:--१२

         *धनाशा कुत:* 

एकस्मिन् गुरुकुले एक: तपस्वी ज्ञानी गुरु: शिष्यान् पाठयति स्म । तत्र अनेके छात्रा: समीचीनतया बहु ज्ञानम् अर्जयित्वा गच्छन्ति स्म। एकदा शिष्यस्य एकस्य मनसि एवम्  विचार: उत्पन्न: 'अहं गुरुकृपया धनिको भवामि' इति। तत: स: बहुधा आलोच्य गुरो: सकाशं गत्वा एवमुक्तवान् ' स्वामिन् आचार्यवर्य,  भवान् सर्वविद्याप्रवीणोस्ति, भवत: लोके असाध्यं किमपि नास्ति। अतः अहं मम एकां वाञ्छां भवत्पुरत: निवेदयामि। कृपया मह्यं दशकोटि धनं यच्छतु। अहं धनिको भवामि ' इति ।

एतत्छ्रुत्वा चकित: गुरु: एवं विचारयामास - दशकोटिपरिमितेन धनेन किं कर्तुं शक्यते, तेन एष: किं साधयति, विद्यया एतावदेव वा अधिकं स्वयमेव तेन  अर्जितुं शक्यते , इदानीं मया एवमुपदिश्यते चेत् आशया अन्ध: एष: तत् न श्रुणोति इति। 

तत: स: एवमुक्तवान् तं बह्वाशं शिष्यं प्रति ' भो, भवत: आशां निश्चयेन पूरयामि, परंतु किञ्चित् कालम्  आवश्यकम् तावद्धनं दातुम्,सप्ताहत्रयानन्तरम् अहं निश्चयेन  दास्यामि ' इति। मुदित: स: छात्र: गुर्वनुग्रहं स्मरन् गत:। 

तत: तस्य आशां दूरीकर्तुं उपायमेकं विचिन्त्य गुरु: तद्दिने एव गुरुकुलस्य पाचकमाहूय तं रात्रौ भोजनाय मृष्टान्नं सज्जीकर्तुमादिदेश। भोजनसमये गुरु: स्वयमेव  कदलीपत्रं निक्षिप्य शिष्याय भक्ष्याणि परिवेषितुमारब्धवान् । एकवारं मुदा एव शाकपाकादि भक्षितवान् स: । गुरुस्तु पुनरेकवारं बहूनि खाद्यानि परिवेषितवान् । इदानीं बहुकष्टेन यथाकथञ्चित् खादित्वा हस्तमार्जनार्थं उत्थित: स: आशादास: । तस्मिन् रात्रौ अजीर्णतया तथा आम्लपित्तेन पीडित: स: निद्रया दूरीकृत:। 
परेद्यु: गुरु: तं पुनराहूय तस्मै बहुमूल्यानि चीनांशुकानि(silk clothes) वस्त्राणि धारणार्थं दत्तवान् । इदानीं सन्तोषेन सर्वान् तान् धृतवान्  । आतपस्य प्रभाव: यदा अधिक: जात: तदा शरीरे सर्वत्र स्वेदतां तथा कण्डूयतां अनुभूय बहुकष्टं प्राप्तवान् स: । तद्दिने पुन: गुरु: पाचकाय नाना भक्ष्याणि-भोज्यानि सज्जीकर्तुमादिदेश। रात्रौ पुन: तं शिष्यमाहूय गुरु: भक्ष्याणि परिवेषितुमारब्धवान्। झटिति उत्थित: स: छात्र: आचार्याय एवं निवेदितवान् ' स्वामिन्, अद्य पुन:  मृष्टान्नं मास्तु। ह्य: रात्रौ निद्राहीन: अहम् अतीव दु:खं अनुभूतवानस्मि। मम यवागुना वा सारमिश्रेण अन्नेनैव अलम् ' इति। 

तदा गुरु: तस्मै एवं पृष्टवान् ' विंशतिदिनानन्तरं भवान् धनिको भविष्यति, तत्समये प्रत्यहम् एवं रीत्या भोजनं लप्स्यते। तथा धारणार्थं बहुमूल्यानि वस्त्राणि अपि प्राप्स्यन्ति । इदानीमेव तदर्थं अभ्यास: कृत: चेत् तदा सुलभं भविष्यति । एवं भवता शतशकटपरिमिता धनराशि: मया दीयते, तां अपहर्तुं चोरा: सर्वत्र सिद्धा: भविष्यन्ति। एकैकस्य शकटस्य रक्षणार्थं दश दश सेवकान् सज्जीकुरु। एवं तावतीं धनराशिम् एकत्र स्थापयितुं सुरक्षित: प्रदेश: आवश्यक: । नो चेत् य: कोsपि पातकी आगत्य धनार्थं भवन्तं मारयितुमपि उद्युक्त: भवति। अत: एतत्सर्वं भवता आलोचितं किम्? तथा सज्जीकृतमिति मन्ये ' इति। 
तस्य वचनै: अधिक धनस्य असारतां जानन् स: शिष्य: तत्क्षणमेव गुरो: पादाभिवन्दनं कृत्वा क्षमां याचितवान् । गुरु: विद्यया तं अनुगृहीतवान् । 

आशाया: ये दासा: ते सर्वलोकस्य दासा: भवन्ति इति एतदर्थमेव कवि: उक्तवान् । अधिकं धनं नाम- अधिका चिन्ता,  संरक्षणस्य भार: इत्यादि । तदर्थं मितेन धनेन सुखेन जीवाम: यदि मनसि तृप्ति: भवेत्। 
प्रमादा: दृष्टा: चेत् कृपया कथ्यन्ताम्

अनुवादक: - श्रीनिधि अभ्यङ्कर:
उपकर्ता-  चिदम्बर:

http://shreenidhiabhyankar.blogspot.in/

ಕಾಮೆಂಟ್‌ಗಳು

ಈ ಬ್ಲಾಗ್‌ನ ಜನಪ್ರಿಯ ಪೋಸ್ಟ್‌ಗಳು

ಕಿರಾತಾರ್ಜುನೀಯ ಪರಿಚಯ

ಪ್ರತಿಮಾ ನಾಟಕ

ಸಂಸ್ಕೃತ ವಿಶೇಷ ಶ್ಲೋಕಗಳು ೩