ವ್ಯಾಕರಣ ೧೦
📖संस्कृत व्याकरणं किं सुलभं वा ????? चिन्तनम् =१०📖
कपि धातु:
चलनम् अर्थ:
प्रथमगणस्थ:
सेट्
आत्मनेपदि
अकर्मक:
१.कम्पते --- भोजने वृद्धस्य हस्तौ कम्पते ।
२. कम्पिष्यते----- कूपनिर्माणसमये भूमि: नितरां कम्पिष्यते ।
३. कम्पयति --- नायक: चलनचित्रे अरीन् कम्पयति ।
४. कम्प्यते--- आधुनिक चिकित्सा पद्धत्या कदाचित् हस्तपादादि कम्प्यते ।
५. कम्पितव्यम्--- आरक्षकाणां शिक्षया दुष्टा: कम्पितव्या: ।
६. कम्पनीयम्--- उन्नतपरीक्षासु कठिणप्रश्नै: अलसा: कम्पनीया: ।
७. कम्पित:--- अनुरागनिवेदनसमये तथा परीक्षासु लेखनसमये मम हस्त: नितरां कम्पित: ।
८. कम्पितवान् --- न्यायनिर्णेतु: प्रश्नै: पातकी कम्पितवान् ।
९. कम्पमान: --- शीतेन कम्पमाना सा सहसा मां आलिङ्गनं कृतवती ।
१०. कम्पितुम् -- अय्यन्तं सुरापानेन स: कम्पितुमारब्ध:।
११. कम्पित्वा----रोगपीडित: बहुधा कम्पित्वा भूमौ पतित: ।
१२. प्रकम्प्य -- वेगेन वातेन शाखा: प्रकम्प्य आम्रफलं पतितम् ।
१३. कम्पनम् ---- शिशिररात्रौ शीतेन कम्पनम् सामान्यम्।
सङ्ग्रहलेख: - श्रीनिधि अभ्यङ्कर: ।
मूलम् -- कन्नड संस्कृत क्रियापदकोश: ।
प्रमादा: सन्ति चेत् कृपया कथ्यन्ताम्
http://shreenidhiabhyankar.blogspot.in/
ಕಾಮೆಂಟ್ಗಳು
ಕಾಮೆಂಟ್ ಪೋಸ್ಟ್ ಮಾಡಿ