ವ್ಯಾಕರಣ ೧೧
📖संस्कृत व्याकरणं किं सुलभं वा ????? चिन्तनम् =११📖
कृञ् धातु:
करणम् अर्थ:
अष्टमगणस्थ:
अनिट्
उभयपदि
सकर्मक:
१.करोति --- ओवैसी भाषणं सम्यक् करोति ।
२. कम्पिष्यते----- तस्य भाषणानि प्रजासु कलहं करिष्यति ।
३. कारयति --- स: सेवकद्वारा भाग्यनगर्यां कोलाहलं कारयति ।
४. क्रियते-- समाजविघटक शक्तीनाम् निवारणं मोदिना क्रियते ।
५. कर्तव्यम्-- राष्ट्रभक्त नेतृन् निर्वाचने चिन्वनं अस्माभि: कर्तव्यम् अस्ति ।
६. करणीयम्--- शिष्टरक्षणं सर्वदा करणीयम् ।
७. कृत:-- अमितेन उत्तमं शासनम् कृतम् ।
८. कृतवान् --- अजित: समीचीनानि कार्याणि कृतवान् ।
९. कुर्वन्/ती --- स्मृती सोत्साहं कार्यं कुर्वन्ती प्रसिद्धिम् अवाप ।
१०. कुर्वाण: -- स्र्तिय: सेनायां उन्नतस्थानं अलङ्कृत्य देशसेवां कुर्वाणा: सन्ति।
११. कर्तुम्---- राष्ट्रसेवां कर्तुं मातृभक्ति: प्रेरका भवति।
१२. कृत्वा -- सैनिका: वैरिप्रदेशेषु आक्रमणं कृत्वा तेषु भयं उत्पादयामासु: ।
१३. उपकृत्य ---- इस्रेल् देश: अस्मान् बहुधा उपकृत्य मित्रताया: औन्नत्यं प्रदर्शितवान्।
१४. करणम् ---- सर्वत्र निर्मलीकरणम् अस्मिन् समये अत्यन्तम् अवश्यम्।
सङ्ग्रहलेख: - श्रीनिधि अभ्यङ्कर: ।
मूलम् -- कन्नड संस्कृत क्रियापदकोश: ।
प्रमादा: सन्ति चेत् कृपया कथ्यन्ताम्
http://shreenidhiabhyankar.blogspot.in/
ಕಾಮೆಂಟ್ಗಳು
ಕಾಮೆಂಟ್ ಪೋಸ್ಟ್ ಮಾಡಿ